अमोघः

अमोघः

Amoghaḥ (Amogh)


स्वपुत्रं   निश्चितोऽन्वेष्टुं   तिमिगर्भात्पलायितः।  
चञ्च्वाम्प्लवस्य   नारङ्गमीनश्चरति   रोदसि॥  
अन्वयः


मन्दा   भ्रष्टाश्च   नेतारो   धनवन्तश्च   लोलुपाः।  
यदि   सन्तः   प्रजानेत्रे   पराभूतिः   सतां   भवेत्॥  
अन्वयः


अमूल्यो   नवरत्नेभ्यश्चतुर्वेदज्ञ   पण्डित।  
बृहती   सप्तसिन्धुभ्यस्ते   सहस्रहृतापि   धीः॥  
अन्वयः
स्पष्टम्


पार्थस्य   सारथिं   देवं   शिशुपालस्य   चान्तकम्।  
यशोदायाश्च   गोपालं   शम्बुं   सदा   नमाम्यहम्॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।


दशाननान्तकं   भानुं   सीतापतिं   जनोत्तमम्।  
अयोध्यानायकं   कान्तं   सदा   सदा   नमाम्यहम्॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।