हर्षः पीसपतिः
निगमादि शास्त्रेषु विदितं प्रसिद्धं
वियदादि भूतेषु विततं विबुद्धं।
नियमादिभिर्यं हि भजते विशुद्धं
प्रणमामि तं लोकविततेः प्रवृद्ध॥
अन्वयः
दीव्यज्ज्योतिस्तत्पदवाच्या हृदिसम्स्था
पाथादीन्यांशुप्रतिसृत्या प्रतनोति।
वस्तुन्यस्तात्मान्वयभावा नविदित्वा
लीलां तस्या: सम्सृतिचक्रे विचरन्ति॥
अन्वयः
तत्पदवाच्या हृदिसंस्था या ज्योतिः दीव्यत् (सन्) (स्वासां) अंशूना प्रतिसृतिं अनुसृत्य पाथादीन् (पञ्चभूतान् = एतत् प्रपञ्चम्) प्रतनोति; तस्याः लीलां न विदित्वा, वस्तुन्यस्तात्मान्वयभावाः (आत्मनः अन्वयः = आत्मान्वयः, तस्य भावः = आत्मान्वयभावः, वस्तुनि न्यस्तः आत्मान्वयभावः यस्य, सः वस्तुन्यस्तात्मान्वयभावः, ते वस्तुन्यस्तात्मान्वयभावाः) सम्सृतिचक्रे विचरन्ति |
यथा क्लिन्नं जलं सदा
गुणाः केचित्स्वभावजाः।
तथा धर्मे चिरं हि तत्
परा भूतिस्सतां भवेत्॥
अन्वयः
याचित्प्रकल्प्यसकलं प्रकटीकरोति प्रद्योतते च नवरात्रसदुत्सवे या।
यां ह्यात्मवान्परिभजत्यखिलेषु नित्यं सा मे ददातु सुधियं तमसोऽतिदूरां॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। या चित् सकलं प्रकल्प्य प्रकटीकरोति; या च नवरात्रसदुत्सवे प्रद्योतते; यां हि आत्मवान् अखिलेषु नित्यं परिभजति; सा मे तमसः अतिदूरां सुधियं ददातु