पक्षालः नागडा
अकम्पनीयं प्लवगस्य पुच्छं
दृष्ट्वा वने चारुमतिः स भीमः।
उवाच को रूपधरोऽसि जीर्ण-
देहोऽपि चक्ष्वाऽद्वयशक्तिमांस्त्वम्?॥
अन्वयः
गुणौघवन्तोऽपि प्रेतुं कॢप्ता नैव त ईश्वरम्।
गुरूणां नादरं मातृपितॄणां वाचरन्ति ये॥
अन्वयः
सर्वज्ञाय परात्मने भगवते तस्मै नमः सर्वदा
यस्याग्रे तु सरस्वती कथयति ज्ञानप्रभातन्वती।
मन्येऽहं मतिदायिनी खलु तथापि त्वत्पुरस्तादहं
मूर्खा वश्चरणारविन्दयुगलान्यर्चामि नित्यं मुदा॥
अन्वयः
मुक्त्वा स्वार्थपरिग्रहौ करुणया सद् यो गतो नित्यदा
दुःस्थान् प्रत्युपकर्तुमीश्वरकृपासद्योगतो नित्यभृत्।
आनन्दोऽस्खलितो हि तस्य परमः सद्यो गतो नित्यता
मन्यं किं कथयानि लोकहृदये स द्योगतोऽनित्यपि॥
अन्वयः
यः ईश्वरकृपासद्योगतः (ईश्वरस्य कृपायाः सम्यक् योगात्) नित्यभृत् (नित्यं श्रिया भृतः इत्यर्थः) सद् (=सत्यम्) स्वार्थ-परिग्रहौ मुक्त्वा करुणया नित्यदा (सर्वदा) दुःस्थान् उपकर्तुम् (तान्) प्रति गतः, तस्य परमः अस्खलितः आनन्दः सद्यः (तत्क्षणे) हि नित्यताम् गतः। अन्यं किं कथयानि? स द्योगतः (दिवंगतः) अपि लोकहृदये अनिति (जीवति)।
शोभति मानसमन्दिरमध्ये
व्रियमाणा वरवीरैर्वरदा
भारतमाता जगता स्तुत्या
हिमवन्मुकुटाऽर्णवधौतपदा
शारदया वितरन्त्या ज्ञानम्
सदृशी भारतमाता ऽस्मभ्यम्
रातु सदा सुधियो वरदानम्
संहरतात् तिमिरं च सदुःखम्
भूम्या वृक्षाः सरितां तोयम्
नृणां गुणनिवहं हि समृद्धिः
श्रीभिर्भर भारतमिह नित्यम्
भारतमात स्त्वमेव लक्ष्मीः
संग्रामे सैनिकहृदयेभ्यो
ददती वीर्यं नूनमनूनम्
भारतमाता शक्तिसरूपा
करोत्वशत्रूनस्मांस्तूर्णम्
वसुधैव कुटुम्बकमिति भावम्
वेदयते संस्कृतिरस्माकम्
वन्दे मातरमाततमहसम्
विश्वस्तुत्यां विश्वगुरुमहम्
प्राङ्नववर्णवृत्ते वै, कालं जालं कलं जलम्।
इति शब्दान् सदर्थे हि, स्वशेमुष्योपयुज्यताम्॥
अन्वयः
स्पष्टम्
दीपावलौ रावणरावगर्जनम्
पाथोमलस्फोटकलं तु शृण्वतः।
वल्लन्त उद्विग्नमृगा मृगाङ्कवत्
लीला विचित्रा ऽद्य तु रावणो जितः॥
अन्वयः
दीपावलौ रावण-राव-गर्जनम् (रावणस्य राव इव गर्जनम् यस्य) पाथोमल (पाथसे जलाय पवनाय वा मलम्) स्फोट-कलम् (स्फोटस्य विस्फोटस्य कलम्) शृण्वतः उद्विग्नमृगाः तु मृगाङ्कवत् वल्लन्ते। विचित्रा लीला [अस्ति] [यद्] अद्य रावणः जितः।
सतः सत्सद्म! नो नाम पराभूतिः सतां भवेत्।
सतः सत् सद्मनो नाम पराभूतिः सतां भवेत्॥
अन्वयः
यत्प्राणिनो लक्ष्म शिनष्ट्यजीवाद् विद्वद्भ्य इष्टा यदमूल्यराश्च।
स्यादुन्नतिं वै जगतो यतश्च त्वामेव हे ज्ञान! हृदा नमामि॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। हे ज्ञान! त्वाम् एव हृदा नमामि, यत् लक्ष्म प्राणिनः अजीवात् शिनष्टि, यत् च विद्वद्भ्यः इष्टा अमूल्यराः [अस्ति], यतः च जगतः उन्नतिं स्यात्। वै पादपूरणाय।
बहूनि रूपाणि हि देवतानां लिखाऽथ वृत्तं बहुरूपिशब्दैः।
विभक्तिभिर्धातुभिरन्त्यवर्णै स्त्रिभिस्त्रिभिर्भिन्नगुणैः प्रयुक्तम्॥
अन्वयः
स्पष्टम्
विषमुरसि विशच्चेन्नूनमानांस्तु रुन्ध्या
दथ शिरसि चितं मे देवि! दुष्येद्भवत्या।
त्वरिदुपरतमध्यं तद्वरं यन्न वादी
शुभति शुभति विश्वे योऽस्ति मध्यस्थ एव॥
अन्वयः
गुणत्विट्पो यो यं विबुधमभिवन्दे षडृतुषु
रुषा येन त्यक्ता निखिलमपि यस्मै मम यतः।
वये नाऽऽराद्यस्य त्रिविधशुचि यस्मिन्न दुरितम्
रमे तत्पादाग्रस्थितशुभदपादाग्रकमले
अन्वयः
यः गुण-त्विट्-पः, यं विबुधम् अभिवन्दे षड्-ऋतुषु, येन निखिलम् अपि रुषा (क्रोधः) त्यक्ता, यस्मै मम यतः, यस्य वये न अरात् (अददत्) त्रिविध-शुचि, यस्मिन् न दुरितम्, तत्-पाद-अग्र-स्थित-शुभद-पाद-अग्र-कमले रमे।
नुत्या नूनं त्वेडे तेत्ताना जा म्मे त्वा वंदे देवम्।
वंदे देवं त्वाम्मे जानात्तातेडे त्वेनं नूत्या नु।
अन्वयः
अन्वय - अत्त! नूनं त्वा नुत्या ईडे, ते [मम] आनाः, त्वा मे जां देवं वंदे। अन्वय - तात! मे जानात् त्वाम् देवम् वंदे, त्वा इनं नूत्या ईडे। (नु पादपूरणाय)
विदिता भुवि तिष्ठंति नद्यो नगनरा स्सदा।
दास्सरा नग-नद्यो न तिष्ठंति विभुता दिवि॥
अन्वयः
विदिताः(सर्वैः ज्ञाताः) नद्यः (सरितः) नग(गिरि)-नराः(मनुष्याः) सदा (सर्वदा) भुवि (पृथिव्याम्) तिष्ठन्ति। दाः (गिरयः), सराः (सरोवराः), नग(वृक्ष)-नद्यः(सरितः) [ईदृशाः च] विभुताः दिवि (आकाशे) न तिष्ठन्ति।
युधिष्ठिरः क्ष्माधवराडशेष हरिव्दिजेता जगदाश्रयो यः।
कृष्णां हि दीव्यन्तमहो तमप्या ऽऽश्रयज्जगन्नाथ परं ब्रुवे किम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
जय जय भारत नमो नमो (मम) देश सदा ते नमो नमो या स्निग्धा श्रमि कृषीवल कृष्टा गङ्गादि सरिद्भिः पूता या वीराणां लोहित स्नपिता तद् वसुधायै नमो नमो काश्मीरज सित समूल त्रिवर्णै रुत्साहं गर्वं सूते अशोक चक्रं करोत्यशोकम् राष्ट्रध्वजाय नमो नमो
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
कौशल्यातनुजो जगाम सुभुजो, भक्त्या पितुः सानुजो, जानक्या सह काननं दशमुखोपध्या हृता मैथिली।
सेतौ कीशचयैः पयोधसि कृते, ऽतः कौशलेयेन स, लङ्केशो हतसैन्यसूनुसहज, एकाकिना ऽहन्यत॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। कौशल्या-तनुजः सुभुजः स-अनुजः, पितुः भक्त्या, जानक्या सह काननं जगाम। दशमुख-उपध्या (दश-मुखस्य रावणस्य उपधिः वञ्चनं, तेन) मैथिली हृता [अभवत्]। अतः, कीश-चयैः (कीशानां वानराणां चयः गणः, तैः) पयोधसि (समुद्रे) सेतौ कृते [सति], सः लङ्का-ईशः हत-सैन्य-सूनु-सहजः (सैन्यं सूनुः सहजाः च हताः यस्य, सः), एकाकिना कौशलेयेन अहन्यत।
जघान रावणं रामस्तं सन्त्यजतु सर्वथा।
र-व-ण-व्यञ्जन-ग्रामं त्यक्त्वा वृत्तं विरच्यताम्॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। स्पष्टम्
नत्वा देवमभीष्टदं सुमनसा, संवन्द्य शुक्लाम्बरी माशीर्वादमवाप्य चारु सुगुरोः, पूर्णे सतीन्दौ दिवि।
अद्य श्रावणमासि संस्कृतदिने, गीर्वाणभाषार्थिनाम् सभ्या वै समितेर्वयं हि भवतां, सुस्वागतं कुर्महे॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। अद्य श्रावणमासि संस्कृतदिने इन्दौ दिवि पूर्णे सति, अभीष्टदम् देवम् सुमनसा नत्वा, शुक्लाम्बरीम् संवन्द्य, सुगुरोः चारु आशीर्वादम् अवाप्य, वयम् हि गीर्वाण-भाषा-अर्थिनाम् समितेः सभ्याः वै भवताम् सुस्वागतम् कुर्महे।
विश्वसुन्दरं विश्वशिक्षकं विश्वार्कोदयकारकम्।
तत् प्रणमामि तच्च स्तवीमि तद् वन्देऽहं भारतम्।
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्॥
पश्यतूत्तरस्यां रक्षन्तं पर्वतराजं हिमालयम्।
पश्यतूर्मिभिर्देशाङ्घ्रिम् प्रक्षालयमानं सागरम्।
पश्यतूदितादित्यकाशितं रमणीयं पूर्वाचलम्।
पश्यतु प्रतीच्यां मरुप्रदेशं सिन्धोः पार्श्वे स्थितम्।
सुन्दर-घन-वन-नगवर-नगरी-सरसां निवहं शोभनम्।
तत् प्रणमामि तच्च स्तवीमि तद् वन्देऽहं भारतम्।
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्॥
शून्य-शोधको भास्करश्चाणक्यश्च सुश्रुतः।
वैयाकरणः पाणीनिर्महावीरो बहुश्रुतः।
आर्यभटो गणितज्ञो ज्योतिर्वित्सु पुरा स्मृतः।
जाता यस्मिन् देशेऽद्याऽदो भारतम् विश्वे स्तुतम्।
कृतं क्रियते करिष्यते च विद्वद्भिः संशोधनम्।
तत् प्रणमामि तच्च स्तवीमि तद् वन्देऽहं भारतम्।
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्॥
को मम शक्तिः कं च श्रयेऽहं केन भवामि गर्वित:।
कस्मै प्राणान् दातुं सज्जः कस्मात् प्राप्तं मे यशः।
गीतानि कस्य गायामि च कुत्र वसामि रक्षितः।
त्वं त्वां त्वया च तुभ्यं त्वत्तस्तव त्वयि हे भारत! देशा बहवः सन्ति किन्तु भारतमेकं केवलम्।
तत् प्रणमामि तच्च स्तवीमि तद् वन्देऽहं भारतम्।
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
कौशल्यापतये हि कोशलमहादेशावनी स्वामिने कौशल्याव्ययभानवे दशरथायायोध्ययोधाय वै।
मर्यादापुरुषोत्तमोऽसुरहरो रामः सुधर्मे सदा ऽमन्दो यस्य सुतोऽवरश्च नरहा तस्मै नमः क्ष्माभृते।
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। यस्य सुतः (पुत्रः) रामः मर्यादापुरुषोत्तमः असुरहरः (असुरान् हरति इति असुरहरः, सः) सदा सुधर्मे (सु = सम्यक धर्मः इति सुधर्मः) तस्मिन् अमन्दः (मन्दः न. अस्ति, तत्परः अस्ति) अवरः (न वरः इति अवरः = अनुत्तमः) नरहा (नरान् हन्ति इति नरहा) अर्थात् रामः निर्दोषनरान् हन्तुम् निरुत्साहः अस्ति, सः दयालुः अस्ति च (अस्ति)। केचन जनाः रावणसदृशाः निर्दोषनरान् हन्तुम् आनन्दमनुभवन्ति । ते उत्तमा नरहनः सन्ति । परंतु रामस्तु कृपालुहृदयः अस्ति । यदि युद्धादिषु नरान् हन्ति, तदाऽपि सः तेषां हनने तत्परः भास्ति । सः नराणां बनना हनने अनु निरुत्सुकः = अनुत्तमः = अवरः अस्ति। तस्मै कौशल्यापतये (कौशल्यायाः पतिः, तस्यै) कौशलमहादेशावनीस्वामिने (महांश्चासौ देशश्च महादेशः, कोशलस्य महादेशः कोशलमहादेशः, तस्य अवनी कोशलमहादेशावनी, तस्याः स्वामी कौशलमहादेशावनीस्वामी, तस्मै) कौशल्याव्ययभानवे (कौशल्ये = कुशलतायाम् तस्मै भानुः इव अव्ययः = अद्वितीयः कौशल्याबयभानुः, तस्मै) अयोध्ययोधाय (अयोध्यः = युद्धे अजयः योधः, तस्मै) अथवा आयोध्ययोधाय अयोध्यायाः योध : = आयोध्ार्यका तस्मै) क्ष्माभूते ( = राज्ञे) नमः। हि, वैच पादपूरणाय ।
तक्रासक्तेन शक्रेण वृष्टा मेघा न, नो तृणम्।
गावो दुग्धं च नाभूवं स्तक्रं शक्रस्य दुर्लभम्॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। तक्र-आसक्तेन शक्रेण मेघाः न वृष्टाः, [ततः] नो तृणम्। [ततः] गावः दुग्धम् च नाभूवन्। [ततः] तक्रम् शक्रस्य दुर्लभम्। एकदा शक्रः (= इन्द्रः) तक्रे आसक्तः भूत्वा स्वकार्यं विस्मृत्य मेघान् न वर्षति। तस्मात् जलं विना तृणं न प्राभवत्। तेन पुनः गावोऽपि भोजनाभावेन न अभवन्। गोभिः विना दुग्धमपि न अभवत्। दुग्धादिना तक्रमपि प्रभवितुं न अशक्नोत्। तर्हि तस्मै शक्राय एव तदेव तक्रं दुर्लभम् जातम्। अस्य श्लोकस्य सारांशः एतदेव यत् सर्वेण स्वकार्यं सुष्ठु करणीयम्, अन्यथा स एव दुःखितो भविष्यति।