साय् श्रीमयी शिष्ट्ला

साय् श्रीमयी शिष्ट्ला

Sāy Śrīmayī Śiṣṭlā (Sai Sreemayee Sistla)


लक्ष्मीशः   सुततां   गतोऽजजनुषः   कृत्स्नाञ्जनान्ह्लादयं   स्ताताज्ञामनुपालयन्स   गहनं   सीतानुजाभ्यामयात्।  
पौलस्त्योऽपनिनाय   तस्य   दयितां   तं   कौसलः   सानुगम्   आहत्य   क्षितिबाधकं   कपिबलैः   साकं   ह्ययोध्यागमत्॥  
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। लक्ष्मीशः कृत्स्नान् जनान् ह्लादयन्, अज-जनुषः (अजात् तद्-नाम्-राज्ञः जनुः जन्म यस्य सः अजजनुः, तस्य) सुतताम् गतः। सः सीता-अनुजाभ्याम् [सह] तात-आज्ञाम् (तातस्य पितुः आज्ञा आदेशः, ताम्) अनुपालयन् गहनम् (काननम्) अयात् (अगच्छत्)। पौलस्त्यः (रावणः) तस्य दयितां (पत्नीम्) अपनिनाय (अपाहरत्)। कौसलः (रामः) तं (रावणम्) क्षिति-बाधकं (क्षितेः पृथ्व्याः बाधकः पीडकः, तम्) सानुगम् (अनुगैः सहितः सानुगः, तम्) आहत्य (हत्वा), कपि-बलैः साकं (सह) हि अयोध्या अगमत् (अगच्छत्)।


यं   दृष्ट्वा   गतवैभवानि   कुमुदान्यब्जानि   फुल्लानि   च   पङ्गौ   सत्यपि   सारथौ   त्रिभुवनं   यो   नित्यमेवाटति।  
कान्ता   यस्य   तमस्विनी   स्वयमिदं   दीप्तं   तनुर्बिभ्रतेते   मन्दो   यस्य   सुतोऽवरश्च   नरहा   तस्मै   नमः   क्ष्माभृते॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।