देवाशिषः
घटायते मृन्निपुणेन पाणिना तथैव शिष्यो गुरुणा सुशिक्षितः।
अज्ञाननीरूपहृते भविष्यति विवेकवान्स त्विव रूपवान्घटः॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
नीलग्रीवं नटननिपुणं बभ्लुशं शूलहस्तं गङ्गाधारं हिमगिरिचरं पार्वतीप्रीतिपात्रम्।
दीपस्तम्भं शशिशिरधरं सोमसूर्याग्निनेत्रं शम्भुं वन्दे त्रिपुरदहनं ब्रह्मशक्रादिवन्द्यम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
तुष्यन्ति लोका इव लब्धसोमाः सुरा जयन्त्यां भरताग्रजस्य।
यो जानकीप्राण उदारराजा तं रावणारिं शिरसा नमामि॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
आनन्दस्य प्रतीकस्तु सर्वेषां श्रीगजाननः।
विद्यां ददितरं देवं लम्बोदरं नमाम्यहम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।