गोपालः

गोपालः

Gopālaḥ (Gopalan S)


रोदसीजीवनंस्वस्व   कंपनीक्षतेचरणेरिपुः।  
कोरणेचारुमायावी   द्वारकाधिपमायया॥  
अन्वयः


येजानन्तिनतत्वमेकमखिलम्   तेधिक्प्रपञ्चेरता:  
को   ज्ञातुं   तपसा   मुदं   विकसितं   मार्गं   भृगुं   प्रोक्तवान्।  
तेषां   चिन्निलये   गुणाम्बुधिहरिं   ध्यायन्तियेसर्वदा  
मूर्खा   वश्चरणारविन्दयुगलान्यर्चामि   नित्यं   मुदा॥  
अन्वयः


तुरङ्गवक्त्रोऽपितरङ्गवक्ता  
भुजङ्गशायीतुविहङ्गवाहः।  
रथाङ्गपाणीकमलाप्रसड्गी  
हृद्रङ्गधामेभगवन्रमस्व॥  
अन्वयः
तुरङ्गवक्त्रः तरङ्गवक्ता तरङ्गवत् वेदशास्त्रादि वक्ता अपि, सः भुजङ्गशायी तु विहङ्गवाहः (विहङ्गः यस्य वाहः), सः रथाङ्गपाणी तस्य रथाङ्गयुत पाणिः पाणिन्, चक्रपाणिः, तु कमलाप्रसङ्गी कमलया सह विशिष्ट सङ्गः तस्य्, ईदृक् तुरङ्गवक्त्र भगवन् हृद्रङ्गमध्ये रमस्व। अत्र भगवतः अघटित घटना सामर्थ्यस्य प्रदर्शनाय प्रतिपदे परस्परम् विपरीत विशयानि लिखितम्।


वृत्तंलिखतसप्रासं   अक्षरेणपदेनवा।  
शब्दावृत्तिंसदात्यक्त्वा   बहुस्थानेविशेषतः॥  
अन्वयः
स्पष्टम्


वटेशयितबालात्  
सरोजपदजालात्।  
कलाद्भनितकाले  
जलोद्भवजजातः॥  
अन्वयः
वटेशयितबालात् (वटे निद्रा प्राप्त बालात्) (हरेः) (तस्य) सरोज इव पदजालात् (तस्मात्) कलात् भनित काले जलोद्भवज (जलोद्भवात् कमलात् जातः ब्रम्हा ) जातः At the time resounding from the faint unheard noise from the lotus like movements of the feet of the child asleep on the Vata leaf, Bramha (one born of the lotus which is born of water) was born.


दीपप्रकाश!   कमलावर!   वेदवेद्यम्  
पापादिहार!   शरणागतभीतिहारिन्।  
वन्दे   त्वमेव   जगदेकनिशापहारी  
लीनंभवेन्मम   मनस्तव   पादपद्मे॥  
अन्वयः
दीपप्रकाश! कमलावर! पापादिहार! शरणागतभीतिहारिन्! त्वमेव जगदेकनिशापहारी । तम् वेदवेद्यं वन्दे। मम मनः तव पादपद्मे लीनम् भवेत्। This is a humble submission about the deity दीपप्रकाश at Toopul, Kanchipuram. The स्थलपुराणम् describes that the deity appeared as a resplendent stream of light during the Ashvamedha Yagam of Bramha to dispell the world encircling darkness created by Asuras in their efforts to thwart the Yagam. The inner meaning is that the Lord is the source of light which dispels the dark traits within us which prevent us from reaching him. Swami Desikan (known as Venkatanatha) was born in the same place and has composed a wonderful work titled शरणागति दीपिका about this deity.


भिषजाद्रिनिवासस्य   महिमा   केन   गीयते।  
वागीशः   यस्य   जिह्वास्थः   परा   भूतिस्सताम्भवेत्॥  
अन्वयः


देहि   मे   परमंभक्तिं   श्रद्धां   च   पुरुषोत्तम।  
तयोर्विना   तु   संसारे   पराभूतिस्सतां   भवेत्॥  
अन्वयः


श्रुत्वागुणांस्तव   सुकीर्तित   भट्टकाव्ये   नारीबभूव   कविमाजुहुवे   रथाङ्गी।  
रूपन्निरीक्ष्य   सुहसन्नवदत्कविस्तं   मातुस्सदा   विकसितं   करुणाकटाक्षं॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।


रमावरं   नीलविशालरूपं  
नरोत्तमंतं   सततं   भजामि।  
पिबाम्यमुं   नामरसानुरूपं  
शिरोधरेयं   विषनीलभूषा॥  
अन्वयः


एको   एव   परात्परेति   वचसा   चत्वारिवेदार्थदं  
एकाकीस्थितयोगिराजमनिषं   चिञ्चातलेसुस्थितं।  
नारीभावधरं   परान्कुशवपुं   त्रैगुण्यवातान्तकम्  
वन्दैकादशगीतलोलमनघं   सप्ताद्रिनाथप्रियम्॥  
अन्वयः


अजात्मजसुतं   नौमि   जानकीसहितं   तथा।  
अयोध्यालोकनाथं   च   दशाननजितं   भजे॥  
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। अज-आत्मज-सुतं नौमि जानकी-सहितं तथा। अयोध्या-लोक-नाथं च दश-आनन-जितं भजे।


घटायते   मृन्निपुणेन   पाणिना   तथैव   शिष्यो   गुरुणा   सुशिक्षितः।  
अज्ञाननीरूपहृते   भविष्यति   विवेकवान्स   त्विव   रूपवान्घटः॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।


श्रीरामो   बलवानन्तगुणवान्नस्त्रातुमत्रागतो   नानाशस्त्रवशीकृतोऽतिनिपुणो   भूपालशिष्योत्तमः।  
शत्रूणाममरोऽर्बुदानि   हतवानेकः   समर्थो   विभु   स्त्वं   सर्वाद्भुतयुद्धजेतृसुगुणान्भद्रं   च   देहि   प्रभो॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।