हर्षः पीसपतिः

हर्षः पीसपतिः

(Harsha Peesapati)


निगमादि   शास्त्रेषु   विदितं   प्रसिद्धं  
वियदादि   भूतेषु   विततं   विबुद्धं।  
नियमादिभिर्यं   हि   भजते   विशुद्धं  
प्रणमामि   तं   लोकविततेः   प्रवृद्ध॥  
अन्वयः


दीव्यज्ज्योतिस्तत्पदवाच्या   हृदिसम्स्था  
पाथादीन्यांशुप्रतिसृत्या   प्रतनोति।  
वस्तुन्यस्तात्मान्वयभावा   नविदित्वा  
लीलां   तस्या:   सम्सृतिचक्रे   विचरन्ति॥  
अन्वयः
तत्पदवाच्या हृदिसंस्था या ज्योतिः दीव्यत् (सन्) (स्वासां) अंशूना प्रतिसृतिं अनुसृत्य पाथादीन् (पञ्चभूतान् = एतत् प्रपञ्चम्) प्रतनोति; तस्याः लीलां न विदित्वा, वस्तुन्यस्तात्मान्वयभावाः (आत्मनः अन्वयः = आत्मान्वयः, तस्य भावः = आत्मान्वयभावः, वस्तुनि न्यस्तः आत्मान्वयभावः यस्य, सः वस्तुन्यस्तात्मान्वयभावः, ते वस्तुन्यस्तात्मान्वयभावाः) सम्सृतिचक्रे विचरन्ति |


यथा   क्लिन्नं   जलं   सदा  
गुणाः   केचित्स्वभावजाः।  
तथा   धर्मे   चिरं   हि   तत्  
परा   भूतिस्सतां   भवेत्॥  
अन्वयः


याचित्प्रकल्प्यसकलं   प्रकटीकरोति   प्रद्योतते   च   नवरात्रसदुत्सवे   या।  
यां   ह्यात्मवान्परिभजत्यखिलेषु   नित्यं   सा   मे   ददातु   सुधियं   तमसोऽतिदूरां॥  
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। या चित् सकलं प्रकल्प्य प्रकटीकरोति; या च नवरात्रसदुत्सवे प्रद्योतते; यां हि आत्मवान् अखिलेषु नित्यं परिभजति; सा मे तमसः अतिदूरां सुधियं ददातु