निलयः मराठे

निलयः मराठे

Nilayaḥ Marāṭhe (Nilay Marathe)


नमामि   मोहनं   कृष्णं   यादवं   पार्थसारथिम्।  
योगेश्वराय   श्रेष्ठाय   कंसहन्त्रे   नमो   नमः॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।


घटायते   मृन्निपुणेन   पाणिना   तथैव   शिष्यो   गुरुणा   सुशिक्षितः।  
अज्ञाननीरूपहृते   भविष्यति   विवेकवान्स   त्विव   रूपवान्घटः॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।


मिथुनेऽथ   शुभे   मासे   सप्ताश्ववाहकः   स्थितः।  
परक्रान्त्यां   स   नः   कुर्याद्   दक्षिणं   दक्षिणायने॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।


त्वमादिश्च   त्वमन्तश्च   ज्ञाने   परोऽपरोप्यथ।  
वैकुण्ठस्थितगोविन्दं   नारायणं   नमाम्यहम्॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।


तुष्यन्ति   लोका   इव   लब्धसोमाः   सुरा   जयन्त्यां   भरताग्रजस्य।  
यो   जानकीप्राण   उदारराजा   तं   रावणारिं   शिरसा   नमामि॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।