पोत्तूरिः रत्नाकरः
अध्वर्युर्यजुषा यजेत पुरुषं होता ऋचा स्तौति वै
उद्गाता श्रुतिसामभिश्च वचसा गायेच्च यज्ञे परे।
धातॄणां च हवींषि संततमहो दास्यन्ति ते वैदिकाः
ऐन्द्रास्स्वर्गगतिं च यान्ति मरणानन्ते घनायां स्थितौ॥
अन्वयः
सन्ध्ययोस्सूर्यमूर्तिश्च विपश्चिदृतुकृद् विभुः।
छायादेव्या: प्रियश्च स्वामीनश्चरति रोदसि॥
अन्वयः
भट्टो जेतुमवैदिकं च कुमतं वव्राज तान् सौगतान्
पाठम् पूर्णतया समाप्य विहसन् वाचाऽवदद्व्यङ्ग्यया।
वो बुद्धेर्मम कार्यमस्ति सुलभं वक्तुं च शक्नोमि किम्
मूर्खा वश्चरणारविन्दयुगलान्यर्चामि नित्यम् मुदा॥
अन्वयः
गङ्गातीरनिवासिनम् पुरहरं शृङ्गाद्रिमूर्ध्निस्थितम्।
सङ्गीतादि विचित्रशास्त्रमुदितं साङ्गोपनीयम् विभुम्॥
भृङ्गारैः कुसुमैस्सुपूजितपदं शृङ्गारलीलावरम्।
रङ्गेशाद्यमरप्रचण्डविनुतं लिङ्गम् भजे श्यामलम्॥
अन्वयः
स्तम्भजलश्च धर्मस्य सूत्रजालं चकार वै।
तद्भाति सर्वकालेषु कलस्सामश्रुतेरिव॥
अन्वयः
यो जलं स्तम्भयति स स्तम्भजलः महर्षिरापस्तम्ब अथवापस्तम्भाख्यः , अयञ्चकार धर्मस्यसूत्राणां जालं । तद् सूत्रजालं भाति सर्वकालेषु यथा कलस्सामश्रुतेः सामवेदस्य कलः मधुरध्वनिः विभाति तथैव ।
कान्तावाद्यकलं चाहं श्रुत्वा जालेऽपतम् हर!
कालोऽधावच्च वेगेन यथा मत्स्यस्तरेज्जले॥
अन्वयः
शिष्टानाम् लोकमित्राणाम् मधुरभारतीविदाम्।
धर्म्मपालनशक्तानाम् पराभूतिः सताम् भवेत्॥
अन्वयः
शशाप पुत्रशोकात् स धृतराष्ट्रो महीपतिः।
पाण्डवान् यादवञ्चेति पराभूतिः सताम् भवेत्॥
अन्वयः
एकात्मेति सुतत्त्वदाय विभवे कारुण्यरूपाय ते
विद्यादाय समाधिनिष्ठनिरतायाद्वैतबोधात्मने
पञ्चोपेतजगत्त्रयस्य परिपालाख्याय कालाग्नये
तस्मै शङ्कररूपिणे नम इदं श्री दक्षिणामूर्तये॥
अन्वयः
स्पष्टम्