शङ्करनारायणः
भूतेशस्य वधूं हिमाद्रितनयामौदार्यदां पार्वतीम्
ऐश्वर्यप्रदनायिकां ऋषिभृगोर्गर्वान्तकस्य प्रियाम्।
वाग्देवीं मतिबुद्धिदामभयदां वाणीं गिरं शारदाम्
मातॄस्ताः पुनितारविन्दचरणा वन्दे सदा देवताः॥
अन्वयः
रक्षितुं पतति प्लुष्टाञ्जलाणुर्मद्रपत्तने।
विरुद्धाभासकाले च मिनश्चरति रोदसि॥
अन्वयः
यदा सर्वजनाश्शान्तास्त्यक्तयुद्धा भवन्ति कौ।
तदा प्राच्यां च सूर्यास्तो मीनश्चरति रोदसि॥
अन्वयः
सहस्रार्बुदताराजा नभोगङ्गा विहायसि।
प्रगच्छति यथा वड्रो मीनश्चरति रोदसि॥
अन्वयः
मेदिनीं जननीं वन्दे वाणीं देवीं सरस्वतीम्।
क्षीराब्धिनायिकां लक्ष्मीं शक्तिं विजयदायिनीम्॥
दीपं नटेशं रतिभर्तृनाशं
पाशं च नागं तव वामभागे।
वन्दे सदा शम्भुमनन्तरूपं
लीलाप्रियं शाश्वतमीशमुग्रम्॥
अन्वयः
विष्णोऽज पुण्डरीकाक्ष लक्ष्मीकान्त जनार्दन।
त्वया महिमया भानोऽपराभूतिस्सतां भवेत्॥
त्रिपुरान्तक भूतेश कन्दर्पह शिवापते।
त्वया महिमया शम्भोऽपराभूतिस्सतां भवेत्॥
अन्वयः
अहो दुर्गे मातस्तव कमलपादाय हि नमो मनो! देवीं लक्ष्मीं सकलभुवनाम्बां स्मर सदा।
नमामि त्वां वाणीं शशिधवलवर्णीं च सततं बलं लक्ष्मीं विद्यां च निखिलदृढं देहि जननि॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
अद्वैतविद्यारसिकन्त्रिलोकज्ञानदीपकम्।
देवङ्गुणत्रयातीतमेकदण्डिनमाश्रये॥
अन्वयः
स्पष्टम्
पार्थस्य सारथिं देवं शिशुपालस्य चान्तकम्।
यशोदायाश्च गोपालं शम्बुं सदा नमाम्यहम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
दशाननान्तकं भानुं सीतापतिं जनोत्तमम्।
अयोध्यानायकं कान्तं सदा सदा नमाम्यहम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।