श्रीरामः गोपिनाथः
वेदे यो ज्ञो देवे सो ज्ञः।
ज्ञस्सोऽवेदे ज्ञो योऽदेवे॥
अन्वयः
One learned in the Vedas, is learned in the [matters of] the [supreme] deity Viṣṇu. One learned not in veda (i.e., avaidika works), is ignorant in the [matters of] the [supreme] deity Viṣṇu. One learned in Vedas and in the [supreme] deity Viṣṇu is Br̥haspati. One learned [in teaching of things] not vedic (Śukrācārya), is learned (guru) amongs the adeva (asura-s). One learned only about the metals in Vedas (वेदे अयोज्ञः) (that is, pursues only materialistic things), is not learned about the [supreme] deity Vīṣṇu (देवे सो अज्ञः). One learned in planets [and their motion] (ज्ञोदेवे) knows the Vedas (with its sacrificial time accuracy).
मारतात तपोसिंह
सदामाति त्वया सह।
हस या त्वतिमादास
हंसिपोत ततारमा॥
अन्वयः
प्रथमप्रकारः तपोसिंह (तपोवर), हंसिपोत (हंसी ब्रह्मा पोतः पुत्रः यस्य),अतिमादास (अति अत्यधिकं मा ज्ञां येषां ते अतिमाः ज्ञानिनः भक्ताः तेषां दास, भक्ताधीन), मारतात त्वया सह तता (व्याप्ता, देशतः कालतश्च) या रमा (लक्ष्मीः) (सा) सद् (सज्जननान्) आमाति (प्रजानाति, कटाक्षयति, (लक्ष्म्या अपि ज्ञानदाता हरिः किमुतान्येषामिति ध्वनिः)), हस (प्रसन्नो भव)॥ अन्ये प्रकाराः तत (देशतो गुणतः कालतश्च व्याप्त) मा (मां) प्रति हस (प्रसन्नो भव), या रता तता (देशतः कालत एव न तु गुणतः) रमा त्वया सह (त्वदधीनत्वान्नगुणत इति सिद्धम्) सदामाति॥ हसया तु अतिमादास (त्वं हसया भक्तत्वात् हासरूपेण प्रीतत्वेन अतिमा अत्यधिकज्ञानवत्याः लक्ष्म्याः दास इव असि) या अतिमादा त्वया सह आस, (सा) सदामाति (इदानीमपि माति) इत्येनेन लक्ष्म्याः कादापि विष्णोः वियोगः नास्तीति सूचितम्॥ स इति विष्णुसम्बुद्धिः, हस (प्रसन्नो भवः) इति दिक्!