श्रीवासः
घटायते मृन्निपुणेन पाणिना तथैव शिष्यो गुरुणा सुशिक्षितः।
अज्ञाननीरूपहृते भविष्यति विवेकवान्स त्विव रूपवान्घटः॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
मिथुनेऽथ शुभे मासे सप्ताश्ववाहकः स्थितः।
परक्रान्त्यां स नः कुर्याद् दक्षिणं दक्षिणायने॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
श्रीरामो बलवानन्तगुणवान्नस्त्रातुमत्रागतो नानाशस्त्रवशीकृतोऽतिनिपुणो भूपालशिष्योत्तमः।
शत्रूणाममरोऽर्बुदानि हतवानेकः समर्थो विभु स्त्वं सर्वाद्भुतयुद्धजेतृसुगुणान्भद्रं च देहि प्रभो॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
नीलग्रीवं नटननिपुणं बभ्लुशं शूलहस्तं गङ्गाधारं हिमगिरिचरं पार्वतीप्रीतिपात्रम्।
दीपस्तम्भं शशिशिरधरं सोमसूर्याग्निनेत्रं शम्भुं वन्दे त्रिपुरदहनं ब्रह्मशक्रादिवन्द्यम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
उक्तं त्वया समरसीममहापटीरे गीताभिधं सुमधुरं निगमान्तशास्त्रम्।
शङ्खं च दक्षिणकरे सहसे सुसौम्ये श्रीपार्थसूत! चरणौ शरणं प्रपद्ये॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।