श्रीवात्सवः
हे चारूमुख हेकृष्ण त्वमसि जीवितं मम।
प्रकम्पनीयारिम् हत्वा को रक्षति त्वदन्यतः॥
अन्वयः
हेसीते तवदर्शनं हरिसखे स्वर्गात्परं पुण्यदम्
शोभाङ्गीशसहोदरि स्वरधरि श्रीलक्ष्मि धर्मालये।
सौन्दर्ये कमलानने शुभकरि श्रीरिन्दिरे मोक्षदे
धातॄन्पालिनि सूत्रधारिणि नमाम्यैश्वर्यदां हृत्स्थिताम्॥
अन्वयः
ब्राह्मणाकृतिमास्थाय पार्थो गूढपराक्रमः।
प्रतिबिम्बं समालोक्य मीनश्चरति रोदसि॥
अन्वयः
निर्वारिणि गृहे पत्नी क्रुद्धा भर्तारमब्रवीत्।
आनय त्वं जलं शीघ्रं मीनश्चरति रोदसि॥
अन्वयः
गरुडेन हृतो मीनः पक्षवेगेन वेगतः।
आकाशमार्गमासाद्य मीनश्चरति रोदसि॥
अन्वयः
शुष्के सरसि सञ्जाते वृष्टिर्नाभूदनेकधा।
जीवितार्थं जलार्थी सन् मीनश्चरति रोदसि॥
अन्वयः
गर्दभो गायति प्राज्ञो नृत्यत्यन्धो निरक्षरः।
सभायां मूर्खराजस्य मीनश्चरति रोदसि॥
अन्वयः
उड्डीयन्ते शिलाः सर्वा निमज्जन्ति विहङ्गमाः।
विपरीते जगद्भावे मीनश्चरति रोदसि॥
अन्वयः
मद्यपस्य दृशौ भ्रान्ते चलत्यावर्तवद्भुवि।
भूमिरप्यम्बुधिर्भाति मीनश्चरति रोदसि॥
अन्वयः
दीनस्यराजं करुणास्वरूपं
पापस्य हन्तारमयोध्यनाथम्।
वन्दे रमाकान्तमनन्तसारं
लीनोस्मि रामे भज युद्धधीरम्॥
अन्वयः
दीनस्य राजं, करुणास्वरूपं, पापस्य हन्तारं, अयोध्यनाथं (कर्मधारय-समासः, अयोध्यः नाथः) , रमाकान्तं च अनन्तसारं वन्दे, रामे लीनोस्मि युद्धधीरम् भज
सर्वविनष्टो जूदात् सः धर्मात्मापि युधिष्ठिरः।
महायुद्धस्य कालार्थं पराभूतिः सतां भवेत्॥
अन्वयः
लोका धार्मिकतां त्यक्त्वा लोभमोहपरायणाः।
पापं भजन्ति मूढास्ते पराभूतिः सतां भवेत्॥
अन्वयः
दृष्ट्वा शूर्पणखां दीनां रावणः क्रोधमूर्च्छितः।
मारीचायाब्रवीत्तत्र पराभूतिः सताम् भवेत्॥
अन्वयः
मत्स्यो वेदसुरक्षको हरिरयं कूर्मं नमस्याम्यहं वाराहेण च रक्षिता सुरभि सा सिंहाय तस्मै नमः।
ह्रस्वान्नास्ति परात्परम् परतरं वण्ठस्य दासोस्म्यहम् रामौ भार्गवराघवौ भजमनः श्रीकृष्णपादामृतं॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
धरामि मौलौ सुपवित्रधारां
वण्ठस्य पादाम्बुजजां नदीं ताम्।
विश्वस्य नाथस्य परस्य भक्त्या
पयोधिभावेन विषं बिभर्मि॥
अन्वयः
श्रीरङ्गेश तवार्चनेन कुशली श्रीभाष्यदाता च यः
श्रीलक्ष्मीचरणारविन्दहृदयध्यानी चतुर्वेदधीः।
कावेरीतटसंश्रितो मुनिरयं पञ्चेन्द्रियस्याधिपः
तं वन्दे यतिराट्पतिं कुलनिधिं रामानुजार्यं भजे॥
अन्वयः
स्पष्टम्
वृत्तं गुरूपरि लिखेदथ किन्तु शब्दानाचार्यशिक्षकगुरूनिह न प्रयुञ्ज्यात्।
वृत्तार्धयोरुभययोरपि कश्चिदङ्कः सङ्ख्यैक्यमत्र नव चेद्वरमस्तु तर्हि॥
अन्वयः
स्पष्टम्
भास्वान्समुद्याति तवेष्टमात्रात् गवां धवं तं प्रणमामि नित्यम्।
वन्दे कुकालीयमदान्तकं तं तं पाण्डरीशं मनसा स्मरामि॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
भारती जननी वन्द्या भूषिता निखिलैर्गुणैः।
धर्मस्य कर्मभूमिः सा मोक्षस्य जननी परा॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
लङ्काधिपतिनाशाय जटायुमोक्षदायिने।
कालनेमिनिहन्ताया कोसलेशाय मङ्गलम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।