Republic Day 1947
७७तमे गणतन्त्रदिवसे संस्थायोजितोत्सवे संस्कृतसमित्या विरचितं मङ्गलाचरणं गीतं च अधः प्रस्तुतम्।
मेदिनीं जननीं वन्दे वाणीं देवीं सरस्वतीम्।
क्षीराब्धिनायिकां लक्ष्मीं शक्तिं विजयदायिनीम्॥— शङ्करनारायणः (Shankaranarayanan C) | श्लोकः
शोभति मानसमन्दिरमध्ये
व्रियमाणा वरवीरैर्वरदा
भारतमाता जगता स्तुत्या
हिमवन्मुकुटाऽर्णवधौतपदा
शारदया वितरन्त्या ज्ञानम्
सदृशी भारतमाता ऽस्मभ्यम्
रातु सदा सुधियो वरदानम्
संहरतात् तिमिरं च सदुःखम्
भूम्या वृक्षाः सरितां तोयम्
नृणां गुणनिवहं हि समृद्धिः
श्रीभिर्भर भारतमिह नित्यम्
भारतमात स्त्वमेव लक्ष्मीः
संग्रामे सैनिकहृदयेभ्यो
ददती वीर्यं नूनमनूनम्
भारतमाता शक्तिसरूपा
करोत्वशत्रूनस्मांस्तूर्णम्
वसुधैव कुटुम्बकमिति भावम्
वेदयते संस्कृतिरस्माकम्
वन्दे मातरमाततमहसम्
विश्वस्तुत्यां विश्वगुरुमहम्— पक्षालः नागडा (Pakshal Nagda)
This post is licensed under CC BY 4.0 by the author.