Post

Digvijaya 1945

१९४५तमे शके ऽयोध्यायां रामाय देवालयं पुनर्निमाप्य मार्ग-शुल्क-द्वादश्यां कुम्भो ऽभ्यसेच्यत। तद्-उत्सवम् अनुष्ठातुं संस्थायां दिग्विजया-ऽऽख्यः कार्यक्रमो नैकैः समितिभिर् अकार्यत। एषा स्रग्धरा तस्मिन्न्-अवसरे रचिता।


रामः   प्रत्यक्षविष्णू   रघुकुलजमणिः   सूर्यसङ्काशतेजा  
जिष्णुः   सोऽक्लिष्टकर्मा   पुनरभिगतवान्राजितुं   स्वामयोध्याम्।  
तं   नत्वा   देवदेवं   ह्यसदृशविभवं   शक्रशूरं   रणेषु  
ह्यस्मिन्पूर्वाभिषेके   महति   हि   मुददे   स्वस्ति   रामो   दधातु॥  
अन्वयः
रामः प्रत्यक्षविष्णुः (प्रत्यक्षेण दृश्यमानो विष्णुः) रघुकुलजमणिः (मणिः इव अनघः, रघोः कुले जातः) सूर्यसङ्काशतेजाः (यस्य तेजः सूर्यस्य तेजसः सङ्काशं सदृशम्) जिष्णुः अक्लिष्टकर्मा (सर्वाणि कर्माणि अक्लिष्टानि यस्य। नास्ति किमपि क्लिष्टं कर्म अस्य इति), सः [रामः] स्वाम् (स्वात्मनः) अयोध्याम् राजितुं पुनः अभिगतवान् [प्रवासात् इत्याशयः]। तं ह्यसदृशविभवं, रणेषु शक्रशूरं, देवदेवं नत्वा, अस्मिन् महति हि मुददे पूर्वाभिषेके रामः स्वस्ति दधातु (हिकारः पादपूरणाय)।


पश्चाद्, व्याप्ति-वर्धनाया ऽन्तिमे पादे व्यकार्येताम् —

सन्नौम्यैक्ष्वाकवं तं ह्यसदृशविभवं शक्रशूरं कृपालुं
स्वस्मिन्पट्टाभिषेके महति हि मुददे स्वति नः सो दधातु॥
This post is licensed under CC BY 4.0 by the author.