अनिकेतः गणेशः
परसेनां प्रविद्यासं गुप्तां तमसि जीविनीम्।
हे चाराः! कोऽरिमित्थं वोऽकम्पनीयं करिष्यति?
अन्वयः
पार्थं मञ्चे समारूढं कृष्णोवाच स्वयंवरे।
अधो दृष्ट्वा स वेध्यो यो मीनश्चरति रोदसि॥
अन्वयः
खगोलं तु स्थिरं विद्याद्भूमिर्वै परिवर्तते।
न मेषो न वृषो नापि मीनश्चरति रोदसि॥
अन्वयः
प्रलये कारयामास मनुना नावमच्युतः।
तां नेतुमभवत्स्थायी मीनश्चरति रोदसि॥
अन्वयः
आचारे सुमतिर्न चेत्सुविरला विद्मः कुतो दुष्फलं
वादे वागृषभा यदीह निखिलाः कस्मिन्हसामो भृशम्।
देवानां प्रियतामवाप्तसरला! वैहासिकानां सदा
मूर्खा! वश्चरणारविन्दयुगलान्यर्चामि नित्यं मुदा॥
अन्वयः
ऐश्वर्यं वञ्छनेनाप्तं धनं वाऽऽशु कुरीतिभिः।
नश्येते क्षणमात्रेण, परा भूतिः सतां भवेत्॥
अन्वयः
सदाजेतृत्वतो दर्पं ततश्चालस्यमेति ना।
कदा कदात्मवृद्ध्यर्थं पराभूतिः सतां भवेत्॥
अन्वयः
नु बिन्दुपीतिदुर्धृतिर्विरिञ्चिविष्णुजिष्णुषू?।
नृषु स्विद्?! ईदृशीशितुर्धृतिर्नु निर्वृतिर्मृडी!॥
अन्वयः
दृष्ट्वा शम्भुं पीयमानं विषं तत्कण्ठं देवी पाणिना जग्रसे वै।
तस्मादार्यां सोऽब्रवीत्किं पद्येनैतत्कण्ठ्यरिक्तेन शीघ्रम्॥
दृष्ट्वा शम्भुं पीयमानं विषं तत्कण्ठं देवी पाणिना जग्रसे वै।
तस्मादार्यां सोऽब्रवीत्किं प्रवग्धि पद्येनैतत्कण्ठ्यहल्वर्जितेन*॥
जलजजस्य सुतांश्चतुरोऽपि यो
ऽद्र्यधरि शून्यवचोभिरपाठयत्।
उपनिषद्रसमद्वयतथ्यकं
त्रिनयनांशमहं प्रणमामि तम्॥
अन्वयः
यः जलजजस्य (ब्रह्मणः) चतुरः[४] सुतान् अपि अद्रेः (वृक्षस्य—इत्यमरः) अधरि शून्यैः[०] वचोभिः उपनिषदां रसम् अद्वय[२]-तथ्यकम् अपाठयत्, तम् त्रिनयनस्य[३] अंशम् अहं प्रणमामि।
भो ᳶप्रभारक्ष मा भास्वन्देव त्वाद्यहृदव्यय।
यव्यद हृद्य त्वा वन्दे स्वभामाक्षरभा ᳶप्रभो॥
अन्वयः
भोः प्रभ भास्वन् देव आद्य-हृद् (प्रथमं हृदयं जीवानां (सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च इति श्रुतेः)) अव्यय, आरक्ष मा। तु पादपूरणाय। यव्य-द (चान्द्रमासं ददातीति) हृद्य स्व-भाम-अक्षर-भाः (स्वभामश्च अक्षरश्च - स्वभामाक्षरः सूर्यः, तस्माद् जाता भाः यस्य सः, चन्द्रः) प्रभो, त्वा वन्दे।
कारागारेऽर्धरात्रे प्रवृषि भृशमथो रोहिणीश्लिष्टचन्द्रे देवक्या दुन्दुभेश्चाभयमपि जनयन्कंसमाघातयिष्यन्।
लक्ष्मीशावातरस्त्वं धनुनिपुणसखे धर्मसंस्थापनाय भूयो नस्तद्रिपुभ्यो यदुचयहृदय त्वं हि सद्यः सुरक्षेः॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। अथो कारा-आगारे (कारायाः बन्धनस्य गृहम् आगारम्, तस्मिन्) अर्ध-रात्रे भृशम् प्रवृषि (सत्याम्) रोहिणी-श्लिष्ट-चन्द्रे (सति), देवक्याः दुन्दुभेः च अभयम् अपि जनयन्, कंसम् आघातयिष्यन्, त्वं लक्ष्मीश! धनु-निपुण-सखे (धनु-विद्यायां निपुणः धनुनिपुणः अर्जुनः, तस्य सखा, सम्बोधनम्)! धर्म-संस्थापनाय अवातरः (अवतरसि स्म)। यदु-चय-हृदय (यदूनां चयः गणः यदुचयः, तस्य हृदयम् यः, सम्बोधन)! भूयः (पुनः) नः (अस्मान्) तद्-रिपुभ्यः (तस्य धर्मस्य रिपुः अरिः, तेभ्यः) त्वं हि सद्यः सुरक्षेः (सुरक्षां कुर्याः)।
<स्त्रोन्ग्>कौ< सिन्धोः <स्त्रोन्ग्>श< सम्पूज्य शक्तिमान्।
<स्त्रोन्ग्>ले< लङ्कां <स्त्रोन्ग्>य< हन्तुं दशास्यकम्॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। शक्तिमान् लेख-अधिप-समः (लेखाधिपेन इद्रेण समः समानः) कौशिक-इष्टः (कौशिकस्य विश्वामित्रस्य इष्टः प्रियः) सिन्धोः (समुद्रस्य) तटे शम्भुं (शिवं) सम्पूज्य दश-आस्यकं (दश आस्यानि यस्य तं; रावणं) हन्तुं लङ्कां ययौ (अगच्छत्)।
गोपालाथर्वणौ तावथ समितिमुखावक्षयो वित्तयन्ता भाषाभागप्रणेतृद्वयमथ निलयो वर्षिणी चैव तौ द्वौ।
सङ्गीते शङ्करश्च प्रणव इह जयो वेङ्कटोऽलङ्कृतिज्ञौ एवं क्रोध्यब्दसङ्घः शिवमिति विरमे पूर्वनेतानिकेतः॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। गोपाल-अथर्वणौ तौ, अथ समिति-मुखौ। अक्षयो वित्त-यन्ता। भाषाभाग-प्रणेतृ-द्वयम्, अथ निलयः वर्षिणी च एव तौ द्वौ। सङ्गीते, शङ्करः च प्रणवः। इह जयः वेङ्कटः अलङ्कृतिज्ञौ। एवं क्रोधि-अब्द-सङ्घः। 'शिवम्' इति [अहम्] विरमे पूर्वनेता अनिकेतः॥
विद्याः सूर्यकरोपमा हि परमाः सङ्ग्राह्य दिव्या यया काशत्पूरितचन्द्रमःप्रतिमया देव्या विसञ्ज्वल्यते।
अज्ञानालसगूढतामसनिशाबुद्धिर्मम ब्रह्मजे ऽथास्यां श्रावणपौर्णमास्यसुतिथौ त्वां नौमि वाग्देवते॥
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। यया काशत्-पूरित-चन्द्रमः-प्रतिमया देव्या, दिव्याः परमाः विद्याः सूर्यकर-उपमाः हि सङ्ग्राह्य मम अज्ञान-आलस-गूढ-तामस-निशा-बुद्धिः विसञ्ज्वल्यते। [हे] ब्रह्मजे वाग्देवते! अथ अस्यां श्रावण-पौर्णमास्य-सुतिथौ त्वां नौमि॥
मन्दो यस्य सुतोऽवरश्च नरहा तस्मै नमः क्ष्माभृते॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
मिथुनेऽथ शुभे मासे सप्ताश्ववाहकः स्थितः।
परक्रान्त्यां स नः कुर्याद् दक्षिणं दक्षिणायने॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
नीलग्रीवं नटननिपुणं बभ्लुशं शूलहस्तं गङ्गाधारं हिमगिरिचरं पार्वतीप्रीतिपात्रम्।
दीपस्तम्भं शशिशिरधरं सोमसूर्याग्निनेत्रं शम्भुं वन्दे त्रिपुरदहनं ब्रह्मशक्रादिवन्द्यम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
उक्तं त्वया समरसीममहापटीरे गीताभिधं सुमधुरं निगमान्तशास्त्रम्।
शङ्खं च दक्षिणकरे सहसे सुसौम्ये श्रीपार्थसूत! चरणौ शरणं प्रपद्ये॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
स्फोटन्तीव वचोर्थ आदिरहिता या वै कवित्वं कवेः
नद्याकारहिता पयोजलवहा या लोकमाताभवत्।
स्वीकृत्य श्रुतिशब्दरूपमृषये छन्दांसि यादर्शयत्
तां सन्नौमि सरस्वतीं सुमतिदे धेह्यर्थवाचौ मयि॥
अन्वयः
या वचः (शब्दस्य) अर्थः इव स्फोटन्ती (या स्फोटन्ती शब्दस्य अर्थ इव), आदिरहिता (शब्दस्य अर्थ इव नित्या), [या] वै कवेः कवित्वं, या नद्याकारहिता (नद्या आकारं धृतवती) पयोजलवहा (यस्यां पय इव जलं वहति) लोकमाता अभवत्, या श्रुतिशब्दरूपं स्वीकृत्य ऋषये छन्दांसि अदर्शयत्, तां सरस्वतीं सन्नौमि। सुमतिदे! अर्थवाचौ (अर्थं च वाचं च) मयि धेहि॥
रामः प्रत्यक्षविष्णू रघुकुलजमणिः सूर्यसङ्काशतेजा
जिष्णुः सोऽक्लिष्टकर्मा पुनरभिगतवान्राजितुं स्वामयोध्याम्।
तं नत्वा देवदेवं ह्यसदृशविभवं शक्रशूरं रणेषु
ह्यस्मिन्पूर्वाभिषेके महति हि मुददे स्वस्ति रामो दधातु॥
अन्वयः
रामः प्रत्यक्षविष्णुः (प्रत्यक्षेण दृश्यमानो विष्णुः) रघुकुलजमणिः (मणिः इव अनघः, रघोः कुले जातः) सूर्यसङ्काशतेजाः (यस्य तेजः सूर्यस्य तेजसः सङ्काशं सदृशम्) जिष्णुः अक्लिष्टकर्मा (सर्वाणि कर्माणि अक्लिष्टानि यस्य। नास्ति किमपि क्लिष्टं कर्म अस्य इति), सः [रामः] स्वाम् (स्वात्मनः) अयोध्याम् राजितुं पुनः अभिगतवान् [प्रवासात् इत्याशयः]। तं ह्यसदृशविभवं, रणेषु शक्रशूरं, देवदेवं नत्वा, अस्मिन् महति हि मुददे पूर्वाभिषेके रामः स्वस्ति दधातु (हिकारः पादपूरणाय)।
वाग्देवीं शिरसा प्रणम्य वरदां नत्वा गणेशं विभुं
बाणाब्धिग्रहभूशकेऽश्वयुजि चास्यां पूर्णिमायां तिथौ।
गीर्वाणीसभया मुदाय भवतामायोजितेऽस्मिन्कृतौ
विश्वेभ्योऽत्र समागतेभ्य इह नः कुर्मः शुभं स्वागतम्॥
अन्वयः
स्पष्टम्