Ethnic Day 1945
संस्थया वार्षिकम् Ethnic Day आह्वयः कार्यक्रम आयुज्यते यस्मिन् भिन्ना भाषासमितयः स्वदेशाचारं प्रदर्शयत्यो गायन्ति नृत्यन्ति पचन्ते वा। १९४५वत्सरे संस्कृतसमितिर् अप्य् अस्मिन् नियुक्तो ऽभवन्, नामरामायणाख्यं प्राकृतगीतं गायन्ती। तन्मङ्गलाचरणरूपम् इदं शार्दूलविक्रीडितेन वाग्देवीवन्दनम्
स्फोटन्तीव वचोर्थ आदिरहिता या वै कवित्वं कवेः
नद्याकारहिता पयोजलवहा या लोकमाताभवत्।
स्वीकृत्य श्रुतिशब्दरूपमृषये छन्दांसि यादर्शयत्
तां सन्नौमि सरस्वतीं सुमतिदे धेह्यर्थवाचौ मयि॥— अनिकेतः गणेशः (Aniketh Ganesh) | शार्दूलविक्रीडितम्
अन्वयः
या वचः (शब्दस्य) अर्थः इव स्फोटन्ती (या स्फोटन्ती शब्दस्य अर्थ इव), आदिरहिता (शब्दस्य अर्थ इव नित्या), [या] वै कवेः कवित्वं, या नद्याकारहिता (नद्या आकारं धृतवती) पयोजलवहा (यस्यां पय इव जलं वहति) लोकमाता अभवत्, या श्रुतिशब्दरूपं स्वीकृत्य ऋषये छन्दांसि अदर्शयत्, तां सरस्वतीं सन्नौमि। सुमतिदे! अर्थवाचौ (अर्थं च वाचं च) मयि धेहि॥
This post is licensed under CC BY 4.0 by the author.