Kṛṣṇa-līlā-'ṣṭaka
१९४७शके कृष्ण-जन्मा-ऽष्टम्य्-अवसरे ऽष्टकम् इदं व्यरचि —
यो देवकीसुतः श्यामः चतुर्भुजाद्भुतश्शिशुः।
खिन्नेषु जातमाश्वासम् जननं तस्य सम्भजे॥१॥
नवनीतविलिप्ताङ्गो गोपीहृदयपूरकः।
यो लौक्यबन्धुतस्करः चोरणं तस्य सम्भजे॥२॥
वल्लभं रासलीलायां कालीयताण्डवाजितः।
नर्तको हृदये नो यो नर्तनं तस्य सम्भजे॥३॥
गोवर्धनाचलोद्धाता गोपानां रूपधारकः।
प्रणतस्नेहधारी यो धारणं तस्य सम्भजे॥४॥
कंसान्तको मुरारिर्यो नरकासुरमर्दक:।
योगरोधनदर्पघ्नः घातनं तस्य सम्भजे॥५॥
चैद्यपापापसारी यः श्रीरुक्मिण्यपहारकः।
विमोचकः परादुःखे हारणं तस्य सम्भजे॥६॥
दूतकः पाण्डवेभ्यो यः सम्पन्नद्वारकागतः।
शुद्धप्रेमानुगन्ता सद् गमनं तस्य सम्भजे॥७॥
प्रज्ञाता पार्थसम्मोहे पुनर्गीताददाच्च नौ।
परमहितवक्ता यो वचनं तस्य सम्भजे॥८॥
श्रीवल्लभमनोज्ञा यो लीला भक्त्या भजेत्सदा।
कृष्णे स्थित्वा प्रसन्नात्मा परात्परं प्रपद्यते॥— श्रीवर्षिणी (Sree Varshini V P) | श्लोकः
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
This post is licensed under CC BY 4.0 by the author.