Mando Yasya Suto 'varaś ca Narahā
Praise be to the king whose elder son is slow and younger one a killer of men
Mando Yasya Suto 'varaś ca Narahā
प्रश्नः
एषा ऽपि पूर्वोक्तवत् समिति-भाषा-प्रणेतृ-निश्चयाय दत्ता —
मन्दो यस्य सुतोऽवरश्च नरहा तस्मै नमः क्ष्माभृते॥— अनिकेतः गणेशः (Aniketh Ganesh) | शार्दूलविक्रीडितम्
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
पूर्तयः
कौशल्यापतये हि कोशलमहादेशावनी स्वामिने कौशल्याव्ययभानवे दशरथायायोध्ययोधाय वै।
मर्यादापुरुषोत्तमोऽसुरहरो रामः सुधर्मे सदा ऽमन्दो यस्य सुतोऽवरश्च नरहा तस्मै नमः क्ष्माभृते।— पक्षालः नागडा (Pakshal Nagda) | शार्दूलविक्रीडितम्
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। यस्य सुतः (पुत्रः) रामः मर्यादापुरुषोत्तमः असुरहरः (असुरान् हरति इति असुरहरः, सः) सदा सुधर्मे (सु = सम्यक धर्मः इति सुधर्मः) तस्मिन् अमन्दः (मन्दः न. अस्ति, तत्परः अस्ति) अवरः (न वरः इति अवरः = अनुत्तमः) नरहा (नरान् हन्ति इति नरहा) अर्थात् रामः निर्दोषनरान् हन्तुम् निरुत्साहः अस्ति, सः दयालुः अस्ति च (अस्ति)। केचन जनाः रावणसदृशाः निर्दोषनरान् हन्तुम् आनन्दमनुभवन्ति । ते उत्तमा नरहनः सन्ति । परंतु रामस्तु कृपालुहृदयः अस्ति । यदि युद्धादिषु नरान् हन्ति, तदाऽपि सः तेषां हनने तत्परः भास्ति । सः नराणां बनना हनने अनु निरुत्सुकः = अनुत्तमः = अवरः अस्ति। तस्मै कौशल्यापतये (कौशल्यायाः पतिः, तस्यै) कौशलमहादेशावनीस्वामिने (महांश्चासौ देशश्च महादेशः, कोशलस्य महादेशः कोशलमहादेशः, तस्य अवनी कोशलमहादेशावनी, तस्याः स्वामी कौशलमहादेशावनीस्वामी, तस्मै) कौशल्याव्ययभानवे (कौशल्ये = कुशलतायाम् तस्मै भानुः इव अव्ययः = अद्वितीयः कौशल्याबयभानुः, तस्मै) अयोध्ययोधाय (अयोध्यः = युद्धे अजयः योधः, तस्मै) अथवा आयोध्ययोधाय अयोध्यायाः योध : = आयोध्ार्यका तस्मै) क्ष्माभूते ( = राज्ञे) नमः। हि, वैच पादपूरणाय ।
अस्मिन् पद्ये अन्त्यपादस्य अर्थपरिवर्तनम कृतम्। पुनः सः श्लोकः श्रीरामपितुः दशरथस्य प्रशस्तये अस्ति। प्रथमे व्दितीये च पादयोः अनुप्रासालङ्कारं वर्तते ।
अप्य् अत्र संस्था-बहिष्ठया ऽस्मत्सख्या पूर्तिरेका दत्ता
यं दृष्ट्वा गतवैभवानि कुमुदान्यब्जानि फुल्लानि च पङ्गौ सत्यपि सारथौ त्रिभुवनं यो नित्यमेवाटति।
कान्ता यस्य तमस्विनी स्वयमिदं दीप्तं तनुर्बिभ्रतेते मन्दो यस्य सुतोऽवरश्च नरहा तस्मै नमः क्ष्माभृते॥— साय् श्रीमयी शिष्ट्ला (Sai Sreemayee Sistla) | शार्दूलविक्रीडितम्
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
This post is licensed under CC BY 4.0 by the author.