Vārṣikotsava 1945
शके १९४५मिते संस्कृतसमितेर्वार्षिकोत्सवे सभावन्दनाय शार्दूलमिदं विरचितम्।
वाग्देवीं शिरसा प्रणम्य वरदां नत्वा गणेशं विभुं
बाणाब्धिग्रहभूशकेऽश्वयुजि चास्यां पूर्णिमायां तिथौ।
गीर्वाणीसभया मुदाय भवतामायोजितेऽस्मिन्कृतौ
विश्वेभ्योऽत्र समागतेभ्य इह नः कुर्मः शुभं स्वागतम्॥— अनिकेतः गणेशः (Aniketh Ganesh) | शार्दूलविक्रीडितम्
अन्वयः
स्पष्टम्
This post is licensed under CC BY 4.0 by the author.