Post

Takraṃ Śakrasya Durlabham

Indra finds it hard to get buttermilk

Takraṃ Śakrasya Durlabham

अग्रिमाय १९४६वर्षाय समितेर् भाषा-विभाग-प्रणेतारौ निश्चेतुं प्रश्नावलिर् मया प्रदत्ता। तस्यां पाद-पुर्ति-समस्ये चास्तां ययोर् आद्येयं प्रसिद्धा —

तक्रं शक्रस्य दुर्लभम्

पूर्तयः

तस्या एताः पूर्तयः —


श्रीनिकेताय   यद्गोप्या  
नित्यभक्त्या   कृतं   ननु।  
केवलमपि   तत्स्वर्गे  
तक्रं   शक्रस्य   दुर्लभम्॥  
अन्वयः
श्रीनिकेताय गोप्या नित्यभक्त्या यद् कृतं, तद् तक्रं केवलम् स्वर्गे ननु शक्रस्य अपि दुर्लभम्। चित्रकाव्यम् - श्री नि के त इत्येतानि पादानां प्रथमाक्षराणि।



तक्रासक्तेन   शक्रेण   वृष्टा   मेघा   न,   नो   तृणम्।  
गावो   दुग्धं   च   नाभूवं   स्तक्रं   शक्रस्य   दुर्लभम्॥  
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। तक्र-आसक्तेन शक्रेण मेघाः न वृष्टाः, [ततः] नो तृणम्। [ततः] गावः दुग्धम् च नाभूवन्। [ततः] तक्रम् शक्रस्य दुर्लभम्। एकदा शक्रः (= इन्द्रः) तक्रे आसक्तः भूत्वा स्वकार्यं विस्मृत्य मेघान् न वर्षति। तस्मात् जलं विना तृणं न प्राभवत्। तेन पुनः गावोऽपि भोजनाभावेन न अभवन्। गोभिः विना दुग्धमपि न अभवत्। दुग्धादिना तक्रमपि प्रभवितुं न अशक्नोत्। तर्हि तस्मै शक्राय एव तदेव तक्रं दुर्लभम् जातम्। अस्य श्लोकस्य सारांशः एतदेव यत् सर्वेण स्वकार्यं सुष्ठु करणीयम्, अन्यथा स एव दुःखितो भविष्यति।


द्वितीया समस्या ऽत्र दृश्या।

This post is licensed under CC BY 4.0 by the author.