Viloma-Vākya
Construct a semordnilap
परीक्षा-कारणाद्, अस्मासु केषाञ्चन पद्य-रचनायां क्लेशत्वाच् च सरलतरा समस्या प्रक्ष्यते सप्ताहे ऽस्मिन्। इह ना ऽनिवार्येण पद्यं लेख्यम् — वाक्य-मात्रम् अप्य् अलम्। 😃
समस्या ३
यथाशक्ति दीर्घतरं “विलोम-वाक्यं” विरच्यताम्। नाम, वाक्यम् अग्रतः पृष्ठतश् चा ऽक्षरशः पठिते ऽर्थवद् भवेत्। नात्र पूर्णं पद्यम् अपेक्षितम्, दीर्घतरं वाक्य-मात्रम् एव, यद् पृष्ठतः पठिते ऽप्य् अर्थवत् तिष्ठति।
यथा —
वंदेहं देवं
ध्येयं यद् उदाहरणवद् अग्रतः पृष्ठतश् च सामान्यता ना ऽपेक्षिता, उभाव् अर्थौ भिन्नौ भवितुम् अर्हतः। केवलम् अर्थवन्तौ भवेताम्।
परीक्षा-सप्ताहाय सर्वेभ्यः शुभाशयाः 👍
आङ्ग्ला-ऽनुवादः
Owing to quiz week and the fact that many of us are not comfortable with composing verses, we have a simpler challenge this week. This time you don’t have to compose an entire verse, just a single sentence or a phrase will do. 😃
Challenge 3
Construct a semordnilap as long as you can in sanskrit. That is, the sentence should make atleast some meaning when you read it forward or backward letterwise. Note there is no restriction to write an entire verse this time, just construct as long sentence as you can which remains meaningful even when read backwards.
For example, वंदे ऽहं देवं
Note that it need not be a palindrome as in this example, but can have different forward and backward meanings. Only they need to be meaningful.
All the best to all for quiz week 👍
समाधानानि
विदिता भुवि तिष्ठंति नद्यो नगनरा स्सदा।
दास्सरा नग-नद्यो न तिष्ठंति विभुता दिवि॥— पक्षालः नागडा (Pakshal Nagda) | श्लोकः
अन्वयः
भो ᳶप्रभारक्ष मा भास्वन्देव त्वाद्यहृदव्यय।
यव्यद हृद्य त्वा वन्दे स्वभामाक्षरभा ᳶप्रभो॥— अनिकेतः गणेशः (Aniketh Ganesh) | श्लोकः
अन्वयः
नुत्या नूनं त्वेडे तेत्ताना जा म्मे त्वा वंदे देवम्।
वंदे देवं त्वाम्मे जानात्तातेडे त्वेनं नूत्या नु।— पक्षालः नागडा (Pakshal Nagda) | विद्युन्माला
अन्वयः
मारतात तपोसिंह
सदामाति त्वया सह।
हस या त्वतिमादास
हंसिपोत ततारमा॥— श्रीरामः गोपिनाथः (Sreeram Gopinath)
अन्वयः
वेदे यो ज्ञो देवे सो ज्ञः।
ज्ञस्सोऽवेदे ज्ञो योऽदेवे॥— श्रीरामः गोपिनाथः (Sreeram Gopinath)