Anuprāsaḥ
Anuprāsaḥ
समस्या १०
वृत्तंलिखतसप्रासं अक्षरेणपदेनवा।
शब्दावृत्तिंसदात्यक्त्वा बहुस्थानेविशेषतः॥
अन्वयः
स्पष्टम्
आङ्ग्ला-ऽनुवादः
Write a verse with Alliteration. Alliteration maybe of a syllable or conjunct. Do not repeat words in the verse, This includes its usage in compounds. Different declination of the same word is however permitted. Alliteration must be performed atleast at one position consistently
समाधानानि
गङ्गातीरनिवासिनम् पुरहरं शृङ्गाद्रिमूर्ध्निस्थितम्।
सङ्गीतादि विचित्रशास्त्रमुदितं साङ्गोपनीयम् विभुम्॥
भृङ्गारैः कुसुमैस्सुपूजितपदं शृङ्गारलीलावरम्।
रङ्गेशाद्यमरप्रचण्डविनुतं लिङ्गम् भजे श्यामलम्॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | शार्दूलविक्रीडितम्
अन्वयः
निगमादि शास्त्रेषु विदितं प्रसिद्धं
वियदादि भूतेषु विततं विबुद्धं।
नियमादिभिर्यं हि भजते विशुद्धं
प्रणमामि तं लोकविततेः प्रवृद्ध॥— हर्षः पीसपतिः (Harsha Peesapati)
अन्वयः
तुरङ्गवक्त्रोऽपितरङ्गवक्ता
भुजङ्गशायीतुविहङ्गवाहः।
रथाङ्गपाणीकमलाप्रसड्गी
हृद्रङ्गधामेभगवन्रमस्व॥
अन्वयः
तुरङ्गवक्त्रः तरङ्गवक्ता तरङ्गवत् वेदशास्त्रादि वक्ता अपि, सः भुजङ्गशायी तु विहङ्गवाहः (विहङ्गः यस्य वाहः), सः रथाङ्गपाणी तस्य रथाङ्गयुत पाणिः पाणिन्, चक्रपाणिः, तु कमलाप्रसङ्गी कमलया सह विशिष्ट सङ्गः तस्य्, ईदृक् तुरङ्गवक्त्र भगवन् हृद्रङ्गमध्ये रमस्व। अत्र भगवतः अघटित घटना सामर्थ्यस्य प्रदर्शनाय प्रतिपदे परस्परम् विपरीत विशयानि लिखितम्।
मुक्त्वा स्वार्थपरिग्रहौ करुणया सद् यो गतो नित्यदा
दुःस्थान् प्रत्युपकर्तुमीश्वरकृपासद्योगतो नित्यभृत्।
आनन्दोऽस्खलितो हि तस्य परमः सद्यो गतो नित्यता
मन्यं किं कथयानि लोकहृदये स द्योगतोऽनित्यपि॥— पक्षालः नागडा (Pakshal Nagda) | शार्दूलविक्रीडितम्
अन्वयः
यः ईश्वरकृपासद्योगतः (ईश्वरस्य कृपायाः सम्यक् योगात्) नित्यभृत् (नित्यं श्रिया भृतः इत्यर्थः) सद् (=सत्यम्) स्वार्थ-परिग्रहौ मुक्त्वा करुणया नित्यदा (सर्वदा) दुःस्थान् उपकर्तुम् (तान्) प्रति गतः, तस्य परमः अस्खलितः आनन्दः सद्यः (तत्क्षणे) हि नित्यताम् गतः। अन्यं किं कथयानि? स द्योगतः (दिवंगतः) अपि लोकहृदये अनिति (जीवति)।
This post is licensed under CC BY 4.0 by the author.