Kālaṃ Jālaṃ Kalaṃ Jalam
Kālaṃ Jālaṃ Kalaṃ Jalam
समस्या ९
प्राङ्नववर्णवृत्ते वै, कालं जालं कलं जलम्।
इति शब्दान् सदर्थे हि, स्वशेमुष्योपयुज्यताम्॥— पक्षालः नागडा (Pakshal Nagda) | श्लोकः
अन्वयः
स्पष्टम्
आङ्ग्ला-ऽनुवादः
Write a verse with less than 9 letters per pāda (anuṣṭup allowed) that uses all of the words काल, जाल, कल, and जल. Note that any vibhakti rūpas of these words are also allowed.
समाधानानि
कान्तावाद्यकलं चाहं श्रुत्वा जालेऽपतम् हर!
कालोऽधावच्च वेगेन यथा मत्स्यस्तरेज्जले॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | श्लोकः
अन्वयः
स्तम्भजलश्च धर्मस्य सूत्रजालं चकार वै।
तद्भाति सर्वकालेषु कलस्सामश्रुतेरिव॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | श्लोकः
अन्वयः
यो जलं स्तम्भयति स स्तम्भजलः महर्षिरापस्तम्ब अथवापस्तम्भाख्यः , अयञ्चकार धर्मस्यसूत्राणां जालं । तद् सूत्रजालं भाति सर्वकालेषु यथा कलस्सामश्रुतेः सामवेदस्य कलः मधुरध्वनिः विभाति तथैव ।
वटेशयितबालात्
सरोजपदजालात्।
कलाद्भनितकाले
जलोद्भवजजातः॥— गोपालः (Gopalan S) | कुमारललिता
अन्वयः
वटेशयितबालात् (वटे निद्रा प्राप्त बालात्) (हरेः) (तस्य) सरोज इव पदजालात् (तस्मात्) कलात् भनित काले जलोद्भवज (जलोद्भवात् कमलात् जातः ब्रम्हा ) जातः At the time resounding from the faint unheard noise from the lotus like movements of the feet of the child asleep on the Vata leaf, Bramha (one born of the lotus which is born of water) was born.
विमोचकं व्यथाकालात् संसारजालपीडनात्।
जलौघपापभारात् च कृष्णवेणुकलं भजे॥— श्रीवर्षिणी (Sree Varshini V P) | श्लोकः
अन्वयः
I mediate (भजे) on the sweet soft sound of Kṛṣna’s flute (कृष्णवेणुकलं) which is the liberator (विमोचकं) from times of agony, (व्यथाकालात्) from the distress of the worldly entanglement, संसारजालपीडनात्। and from the weight of flowing/flooding sins (जलौघपापभारात् च).
This post is licensed under CC BY 4.0 by the author.