Niṣkaṇṭhya
समस्या ५
दृष्ट्वा शम्भुं पीयमानं विषं तत्कण्ठं देवी पाणिना जग्रसे वै।
तस्मादार्यां सोऽब्रवीत्किं प्रवग्धि पद्येनैतत्कण्ठ्यहल्वर्जितेन*॥— अनिकेतः गणेशः (Aniketh Ganesh) | शालिनी
देवी पार्वती शम्भुं विषं पीयमानं दृष्ट्वा, तस्य कण्ठं स्वहस्तेन अग्रसत। तस्मात्, सः शिवः आर्यां पार्वतीं किम् अब्रवीत्? एतत् कण्ठ्यहल्भिः वर्जितेन पद्येन प्रवद।
*अकुहविसर्जनीयानां कण्ठः इति चन्द्रगोमिशिक्षासूत्रात् कण्ठ्याः {अ, कवर्गीयानि, हकारो, विसर्गश्च}। तेषु हलः {कवर्गीयानि, हकारश्च} निषिद्धा अत्र।
प्रौढक्रीडा
दृष्ट्वा शम्भुं पीयमानं विषं तत्कण्ठं देवी पाणिना जग्रसे वै।
तस्मादार्यां सोऽब्रवीत्किं पद्येनैतत्कण्ठ्यरिक्तेन शीघ्रम्॥— अनिकेतः गणेशः (Aniketh Ganesh) | शालिनी
अन्येषामपि कण्ठ्यानां यथाशक्तिवर्जनं विशिष्यते।
आङ्ग्ला-ऽनुवादः
Challenge 5
Seeing Śiva drink poison, Pārvatī held His throat with Her hand. After this, what did Śiva tell Pārvatī? Tell this with a verse devoid of guttural* consonants
*‘guttural’ here is employed per Candragomin’s definition where {अ, आ, क्, ख्, ग्, घ्, ङ्, ह्, ः} are considered ‘guttural’ phonemes. Of these, {क्, ख्, ग्, घ्, ङ्, ह्} are consonants, and are barred from usage in your verse.
Hard Mode:
Avoid the other guttural phonemes as well
समाधानानि
रमावरं नीलविशालरूपं
नरोत्तमंतं सततं भजामि।
पिबाम्यमुं नामरसानुरूपं
शिरोधरेयं विषनीलभूषा॥— गोपालः (Gopalan S) | उपेन्द्रवज्रा
अन्वयः
धरामि मौलौ सुपवित्रधारां
वण्ठस्य पादाम्बुजजां नदीं ताम्।
विश्वस्य नाथस्य परस्य भक्त्या
पयोधिभावेन विषं बिभर्मि॥— श्रीवात्सवः (Srivatsav) | उपजातिः
अन्वयः
विषमुरसि विशच्चेन्नूनमानांस्तु रुन्ध्या
दथ शिरसि चितं मे देवि! दुष्येद्भवत्या।
त्वरिदुपरतमध्यं तद्वरं यन्न वादी
शुभति शुभति विश्वे योऽस्ति मध्यस्थ एव॥— पक्षालः नागडा (Pakshal Nagda)
अन्वयः
नु बिन्दुपीतिदुर्धृतिर्विरिञ्चिविष्णुजिष्णुषू?।
नृषु स्विद्?! ईदृशीशितुर्धृतिर्नु निर्वृतिर्मृडी!॥— अनिकेतः गणेशः (Aniketh Ganesh) | प्रमाणिका