Svara-s
Svara-s
समस्या १४
ऌॡ-वर्जान् स्वरान् सर्वान् मुदा पद्ये समानय।
आङ्ग्ला-ऽनुवादः
Bring together all svaras except ऌ and ॡ (अ आ इ ई उ ऊ ऋ ॠ ए ऐ ओ औ) in a verse. Note that all of the letters have to appear as is in the verse. Therefore राजर्षि will not count as an instance of ऋ
समाधानानि
भूतेशस्य वधूं हिमाद्रितनयामौदार्यदां पार्वतीम्
ऐश्वर्यप्रदनायिकां ऋषिभृगोर्गर्वान्तकस्य प्रियाम्।
वाग्देवीं मतिबुद्धिदामभयदां वाणीं गिरं शारदाम्
मातॄस्ताः पुनितारविन्दचरणा वन्दे सदा देवताः॥— शङ्करनारायणः (Shankaranarayanan C) | शार्दूलविक्रीडितम्
अन्वयः
अध्वर्युर्यजुषा यजेत पुरुषं होता ऋचा स्तौति वै
उद्गाता श्रुतिसामभिश्च वचसा गायेच्च यज्ञे परे।
धातॄणां च हवींषि संततमहो दास्यन्ति ते वैदिकाः
ऐन्द्रास्स्वर्गगतिं च यान्ति मरणानन्ते घनायां स्थितौ॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | शार्दूलविक्रीडितम्
अन्वयः
हेसीते तवदर्शनं हरिसखे स्वर्गात्परं पुण्यदम्
शोभाङ्गीशसहोदरि स्वरधरि श्रीलक्ष्मि धर्मालये।
सौन्दर्ये कमलानने शुभकरि श्रीरिन्दिरे मोक्षदे
धातॄन्पालिनि सूत्रधारिणि नमाम्यैश्वर्यदां हृत्स्थिताम्॥— श्रीवात्सवः (Srivatsav) | शार्दूलविक्रीडितम्
अन्वयः
पितृभिस्स्थापितम् धर्मम् पितॄणामोषधिम् गुरुम्।
पितृभ्यश्श्रीम् गुरूणाम् च वन्दे सौन्दर्यवैदिकम्॥— प्रणवः रमेशः (Pranav Ramesh) | श्लोकः
अन्वयः
शास्त्रैः स्मृतौ च वैद्ये शकुने मन्त्रे नवीननाट्येषु।
हे गम्भीरे पूर्णः कृपया ज्ञात्ॠन् तु बोधय हि॥— अथर्वः फाटकः (Atharva Phatak) | आर्या
अन्वयः
वराहं च सिंहं च मीनं च कूर्मम्
उपेन्द्रं च कृष्णं तथा कौसलेयम्।
महागोपतिं रैणुकेयं च कल्किम्
मनीषं च मातॄस्सदाहं नमामि॥
अन्वयः
गुणौघवन्तोऽपि प्रेतुं कॢप्ता नैव त ईश्वरम्।
गुरूणां नादरं मातृपितॄणां वाचरन्ति ये॥— पक्षालः नागडा (Pakshal Nagda) | श्लोकः
अन्वयः
This post is licensed under CC BY 4.0 by the author.