Post

Dīpāvalī 1947

Dīpāvalī 1947

समस्या ८

वृत्तं लिखेद् यस्मिन्भवेत्। दीपावली पादादिषु॥

आङ्ग्ला-ऽनुवादः

Write a verse (strictly in a metre other than anuṣṭup) whose each pāda has the first letters of दी, पा, व, ली respectively.

समाधानानि


दीपप्रकाश!   कमलावर!   वेदवेद्यम्  
पापादिहार!   शरणागतभीतिहारिन्।  
वन्दे   त्वमेव   जगदेकनिशापहारी  
लीनंभवेन्मम   मनस्तव   पादपद्मे॥  
अन्वयः
दीपप्रकाश! कमलावर! पापादिहार! शरणागतभीतिहारिन्! त्वमेव जगदेकनिशापहारी । तम् वेदवेद्यं वन्दे। मम मनः तव पादपद्मे लीनम् भवेत्। This is a humble submission about the deity दीपप्रकाश at Toopul, Kanchipuram. The स्थलपुराणम् describes that the deity appeared as a resplendent stream of light during the Ashvamedha Yagam of Bramha to dispell the world encircling darkness created by Asuras in their efforts to thwart the Yagam. The inner meaning is that the Lord is the source of light which dispels the dark traits within us which prevent us from reaching him. Swami Desikan (known as Venkatanatha) was born in the same place and has composed a wonderful work titled शरणागति दीपिका about this deity.



दीव्यज्ज्योतिस्तत्पदवाच्या   हृदिसम्स्था  
पाथादीन्यांशुप्रतिसृत्या   प्रतनोति।  
वस्तुन्यस्तात्मान्वयभावा   नविदित्वा  
लीलां   तस्या:   सम्सृतिचक्रे   विचरन्ति॥  
अन्वयः
तत्पदवाच्या हृदिसंस्था या ज्योतिः दीव्यत् (सन्) (स्वासां) अंशूना प्रतिसृतिं अनुसृत्य पाथादीन् (पञ्चभूतान् = एतत् प्रपञ्चम्) प्रतनोति; तस्याः लीलां न विदित्वा, वस्तुन्यस्तात्मान्वयभावाः (आत्मनः अन्वयः = आत्मान्वयः, तस्य भावः = आत्मान्वयभावः, वस्तुनि न्यस्तः आत्मान्वयभावः यस्य, सः वस्तुन्यस्तात्मान्वयभावः, ते वस्तुन्यस्तात्मान्वयभावाः) सम्सृतिचक्रे विचरन्ति |



दीपावलौ   रावणरावगर्जनम्  
पाथोमलस्फोटकलं   तु   शृण्वतः।  
वल्लन्त   उद्विग्नमृगा   मृगाङ्कवत्  
लीला   विचित्रा   ऽद्य   तु   रावणो   जितः॥  
अन्वयः
दीपावलौ रावण-राव-गर्जनम् (रावणस्य राव इव गर्जनम् यस्य) पाथोमल (पाथसे जलाय पवनाय वा मलम्) स्फोट-कलम् (स्फोटस्य विस्फोटस्य कलम्) शृण्वतः उद्विग्नमृगाः तु मृगाङ्कवत् वल्लन्ते। विचित्रा लीला [अस्ति] [यद्] अद्य रावणः जितः।



दीनस्यराजं   करुणास्वरूपं  
पापस्य   हन्तारमयोध्यनाथम्।  
वन्दे   रमाकान्तमनन्तसारं  
लीनोस्मि   रामे   भज   युद्धधीरम्॥  
अन्वयः
दीनस्य राजं, करुणास्वरूपं, पापस्य हन्तारं, अयोध्यनाथं (कर्मधारय-समासः, अयोध्यः नाथः) , रमाकान्तं च अनन्तसारं वन्दे, रामे लीनोस्मि युद्धधीरम् भज



दीपं   नटेशं   रतिभर्तृनाशं  
पाशं   च   नागं   तव   वामभागे।  
वन्दे   सदा   शम्भुमनन्तरूपं  
लीलाप्रियं   शाश्वतमीशमुग्रम्॥  
अन्वयः


This post is licensed under CC BY 4.0 by the author.