Mūrkhā Vaś Caraṇāravindayugalāny Arcāmi Nityaṃ Mudā
Mūrkhā Vaś Caraṇāravindayugalāny Arcāmi Nityaṃ Mudā
समस्या ११
‘मूर्खा वश्चरणारविन्दयुगलान्यर्चामि नित्यं मुदा’ इति पादपूर्त्याः समाधानं कुरु।
आङ्ग्ला-ऽनुवादः
Give the pādapūrti of the line - “Oh fools! I joyfully worship your pair of lotus feet daily”
समाधानानि
सर्वज्ञाय परात्मने भगवते तस्मै नमः सर्वदा
यस्याग्रे तु सरस्वती कथयति ज्ञानप्रभातन्वती।
मन्येऽहं मतिदायिनी खलु तथापि त्वत्पुरस्तादहं
मूर्खा वश्चरणारविन्दयुगलान्यर्चामि नित्यं मुदा॥— पक्षालः नागडा (Pakshal Nagda) | शार्दूलविक्रीडितम्
अन्वयः
येजानन्तिनतत्वमेकमखिलम् तेधिक्प्रपञ्चेरता:
को ज्ञातुं तपसा मुदं विकसितं मार्गं भृगुं प्रोक्तवान्।
तेषां चिन्निलये गुणाम्बुधिहरिं ध्यायन्तियेसर्वदा
मूर्खा वश्चरणारविन्दयुगलान्यर्चामि नित्यं मुदा॥— गोपालः (Gopalan S) | शार्दूलविक्रीडितम्
अन्वयः
आचारे सुमतिर्न चेत्सुविरला विद्मः कुतो दुष्फलं
वादे वागृषभा यदीह निखिलाः कस्मिन्हसामो भृशम्।
देवानां प्रियतामवाप्तसरला! वैहासिकानां सदा
मूर्खा! वश्चरणारविन्दयुगलान्यर्चामि नित्यं मुदा॥— अनिकेतः गणेशः (Aniketh Ganesh) | शार्दूलविक्रीडितम्
अन्वयः
भट्टो जेतुमवैदिकं च कुमतं वव्राज तान् सौगतान्
पाठम् पूर्णतया समाप्य विहसन् वाचाऽवदद्व्यङ्ग्यया।
वो बुद्धेर्मम कार्यमस्ति सुलभं वक्तुं च शक्नोमि किम्
मूर्खा वश्चरणारविन्दयुगलान्यर्चामि नित्यम् मुदा॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | शार्दूलविक्रीडितम्
अन्वयः
This post is licensed under CC BY 4.0 by the author.