Verse Session 46.2 - Rāma-Navamī
Upajāti
पूर्वोक्त-कक्षा-ऽऽवल्यां द्वितीयेयं राम-जन्म-नवमी-पूर्विका। पूर्वस्यां श्लोक-नैपुण्ये प्राप्त इहोपजाति-परिचयो ऽकार्यत। अतो राम-विषयोपजातिर् इयं व्यरच्यत, या च संस्थाया राम-नवम्य्-उत्सवे मङ्गलाचरणत्वेन प्रगीता।
तुष्यन्ति लोका इव लब्धसोमाः सुरा जयन्त्यां भरताग्रजस्य।
यो जानकीप्राण उदारराजा तं रावणारिं शिरसा नमामि॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
This post is licensed under CC BY 4.0 by the author.