Post

Kṛṣṇa-janmāṣṭamī

Do not repeat consonants in atleast 3 names of Kṛṣṇa

Kṛṣṇa-janmāṣṭamī

समस्या २

अद्य जन्माष्टमी त्रिलोकधारिणः जन्मदिनम् । अतः रचयतु श्लोकं यत्र कान्यपि त्रीणि कृष्णनामानि स्युः, येषु च एकः अपि अक्षरः सामान्यः न भवेत्। अनुष्टुप्-परित्यजने विशेषं मान्यते।

आङ्ग्ला-ऽनुवादः

Challenge 2

Today is Janmāṣṭamī, the birthday of the one who sustains the three worlds. Hence, compose a verse consisting of atleast 3 names of Lord Kṛṣṇa such that none of the words have any letter in common with each of the others.

For eg:, माधव and यादव cannot be used together since ‘व्’ repeats. The same holds for मुरारि and जनार्दन (notice that ‘र्’ repeats) as well as अच्युत and अनन्त. However, कृष्ण, वासुदेव and श्रीशः can be used together since they have no letter in common.

Clarification: Repeating letters due to vibhakti forms are allowed- for eg:, कृष्णम् and माधवम् is allowed (the ending म् is allowed). Similarly, repeating parts of the forms due to pratyaya are also allowed.

Note: Brownie points will be given to those who attempt meters other than Anuṣṭup.

समाधानानि


वन्देऽहं   श्रीनन्दसूनुम्   लोकपालकं   हरिं   कृष्णं।  
मम   मनसि   सदा   वसतु   तव   बालकक्रीडामृतम्॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



बृहच्छृङ्गी   पृथुर्धाता   चानन्दी   चाचलश्च   कः।  
सहस्रनामसंस्तुत्यः   षड्भिरप्यनुमोदतु॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



नवनीतचौर्यकर्तारमतिमोहनहासिनम्।  
बलानुजं   हरिं   वन्दे   वासुदेवं   हृदि   भजे॥  
— सन्ध्या (Sandhya)
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



पार्थस्य   सारथिं   देवं   शिशुपालस्य   चान्तकम्।  
यशोदायाश्च   गोपालं   शम्बुं   सदा   नमाम्यहम्॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



जगन्नाथः   स   पार्थसारथिः।  
देवानां   देवः   स   च   बालगोपालानां   सखा।  
एषः   स   माधवः॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



नमामि   मोहनं   कृष्णं   यादवं   पार्थसारथिम्।  
योगेश्वराय   श्रेष्ठाय   कंसहन्त्रे   नमो   नमः॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



कारागारेऽर्धरात्रे   प्रवृषि   भृशमथो   रोहिणीश्लिष्टचन्द्रे   देवक्या   दुन्दुभेश्चाभयमपि   जनयन्कंसमाघातयिष्यन्।  
लक्ष्मीशावातरस्त्वं   धनुनिपुणसखे   धर्मसंस्थापनाय   भूयो   नस्तद्रिपुभ्यो   यदुचयहृदय   त्वं   हि   सद्यः   सुरक्षेः॥  
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। अथो कारा-आगारे (कारायाः बन्धनस्य गृहम् आगारम्, तस्मिन्) अर्ध-रात्रे भृशम् प्रवृषि (सत्याम्) रोहिणी-श्लिष्ट-चन्द्रे (सति), देवक्याः दुन्दुभेः च अभयम् अपि जनयन्, कंसम् आघातयिष्यन्, त्वं लक्ष्मीश! धनु-निपुण-सखे (धनु-विद्यायां निपुणः धनुनिपुणः अर्जुनः, तस्य सखा, सम्बोधनम्)! धर्म-संस्थापनाय अवातरः (अवतरसि स्म)। यदु-चय-हृदय (यदूनां चयः गणः यदुचयः, तस्य हृदयम् यः, सम्बोधन)! भूयः (पुनः) नः (अस्मान्) तद्-रिपुभ्यः (तस्य धर्मस्य रिपुः अरिः, तेभ्यः) त्वं हि सद्यः सुरक्षेः (सुरक्षां कुर्याः)।



शिशुपाल   धरापालाऽमित्र   भूरि   दयालय।  
पशुपाल   कुलाकाशमित्र   मां   परिपालय॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



भास्वान्समुद्याति   तवेष्टमात्रात्   गवां   धवं   तं   प्रणमामि   नित्यम्।  
वन्दे   कुकालीयमदान्तकं   तं   तं   पाण्डरीशं   मनसा   स्मरामि॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



युधिष्ठिरः   क्ष्माधवराडशेष   हरिव्दिजेता   जगदाश्रयो   यः।  
कृष्णां   हि   दीव्यन्तमहो   तमप्या   ऽऽश्रयज्जगन्नाथ   परं   ब्रुवे   किम्॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



पद्मानन   स्मरणमेव   विशेषणं   ते   पार्श्वे   च   ते   शुभविदर्भजतोयजाक्षी।  
त्वं   पाहि   मां   कुवलयाङ्ग   सुभासहास   हे   श्रीध   ते   सुजलजं   शरणं   प्रपद्ये॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।



हरिरेवैति   यो   वेत्ति   कर्ता   ज्ञाता   तथा   जगत्।  
वासुदेवं   स   प्राप्नोति   कृष्णमाया   विवर्जितः॥  
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।


This post is licensed under CC BY 4.0 by the author.