Mīnaścarati Rodasi
Mīnaścarati Rodasi
समस्या १३
‘मीनश्चरति रोदसि।’ इति पादपूर्त्याः समाधानं कुरु।
आङ्ग्ला-ऽनुवादः
Solve the pādapūrti- Fish roams in the sky/land
समाधानानि
मद्यपस्य दृशौ भ्रान्ते चलत्यावर्तवद्भुवि।
भूमिरप्यम्बुधिर्भाति मीनश्चरति रोदसि॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
उड्डीयन्ते शिलाः सर्वा निमज्जन्ति विहङ्गमाः।
विपरीते जगद्भावे मीनश्चरति रोदसि॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
गर्दभो गायति प्राज्ञो नृत्यत्यन्धो निरक्षरः।
सभायां मूर्खराजस्य मीनश्चरति रोदसि॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
शुष्के सरसि सञ्जाते वृष्टिर्नाभूदनेकधा।
जीवितार्थं जलार्थी सन् मीनश्चरति रोदसि॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
गरुडेन हृतो मीनः पक्षवेगेन वेगतः।
आकाशमार्गमासाद्य मीनश्चरति रोदसि॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
निर्वारिणि गृहे पत्नी क्रुद्धा भर्तारमब्रवीत्।
आनय त्वं जलं शीघ्रं मीनश्चरति रोदसि॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
ब्राह्मणाकृतिमास्थाय पार्थो गूढपराक्रमः।
प्रतिबिम्बं समालोक्य मीनश्चरति रोदसि॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
प्रलये कारयामास मनुना नावमच्युतः।
तां नेतुमभवत्स्थायी मीनश्चरति रोदसि॥— अनिकेतः गणेशः (Aniketh Ganesh) | श्लोकः
अन्वयः
खगोलं तु स्थिरं विद्याद्भूमिर्वै परिवर्तते।
न मेषो न वृषो नापि मीनश्चरति रोदसि॥— अनिकेतः गणेशः (Aniketh Ganesh) | श्लोकः
अन्वयः
पार्थं मञ्चे समारूढं कृष्णोवाच स्वयंवरे।
अधो दृष्ट्वा स वेध्यो यो मीनश्चरति रोदसि॥— अनिकेतः गणेशः (Aniketh Ganesh) | श्लोकः
अन्वयः
सन्ध्ययोस्सूर्यमूर्तिश्च विपश्चिदृतुकृद् विभुः।
छायादेव्या: प्रियश्च स्वामीनश्चरति रोदसि॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | श्लोकः
अन्वयः
पाञ्चालेशोऽपि विक्रान्त आश्चर्येण स पश्यति।
विध्यति ब्राह्मणो लक्ष्यं मीनश्चरति रोदसि॥
अन्वयः
अन्नपूर्णा विशालाक्षी क्षुधानाशाय देवता।
माता सा नयनं यस्या मीनश्चरति रोदसि॥— प्रणवः रमेशः (Pranav Ramesh) | श्लोकः
अन्वयः
स्वपुत्रं निश्चितोऽन्वेष्टुं तिमिगर्भात्पलायितः।
चञ्च्वाम्प्लवस्य नारङ्गमीनश्चरति रोदसि॥
अन्वयः
मीनावासोदितेशेन मीनरूपकृपेच्छया।
मीनजालविमुक्तस्सः मीनश्चरति रोदसि॥— श्रीवर्षिणी (Sree Varshini V P) | श्लोकः
अन्वयः
मीनस्य आवासात् उदितायाः ईशेन मीनरूपस्य कृपेच्छया मीनजालात् विमुक्तः सः मीनः रोदसि चरति।
सहस्रार्बुदताराजा नभोगङ्गा विहायसि।
प्रगच्छति यथा वड्रो मीनश्चरति रोदसि॥— शङ्करनारायणः (Shankaranarayanan C) | श्लोकः
अन्वयः
यदा सर्वजनाश्शान्तास्त्यक्तयुद्धा भवन्ति कौ।
तदा प्राच्यां च सूर्यास्तो मीनश्चरति रोदसि॥— शङ्करनारायणः (Shankaranarayanan C) | श्लोकः
अन्वयः
रक्षितुं पतति प्लुष्टाञ्जलाणुर्मद्रपत्तने।
विरुद्धाभासकाले च मिनश्चरति रोदसि॥— शङ्करनारायणः (Shankaranarayanan C) | श्लोकः
अन्वयः
This post is licensed under CC BY 4.0 by the author.