Navarātra
Navarātra
समस्या ६
बहूनि रूपाणि हि देवतानां लिखाऽथ वृत्तं बहुरूपिशब्दैः।
विभक्तिभिर्धातुभिरन्त्यवर्णै स्त्रिभिस्त्रिभिर्भिन्नगुणैः प्रयुक्तम्॥— पक्षालः नागडा (Pakshal Nagda) | उपेन्द्रवज्रा
अन्वयः
स्पष्टम्
आङ्ग्ला-ऽनुवादः
compose a verse utilizing explicitly atleast 3 vibhaktis , 3 different śabda(different ending) and 3 dhātu(s)
Note that the śabda should be used in its intrinsic final form to be considered for the count. Using them in a compound word doesnt add to the count. Same applies to dhātu(s) and vibhaktis. The vibhakti usages need not correspond to the same śabda.
Bonus:
- incorporate number 9 (or any numbers per say explicitly)
- incorporate all 8 vibhaktis (or as much as possible)
- Word patterns
समाधानानि
अहो दुर्गे मातस्तव कमलपादाय हि नमो मनो! देवीं लक्ष्मीं सकलभुवनाम्बां स्मर सदा।
नमामि त्वां वाणीं शशिधवलवर्णीं च सततं बलं लक्ष्मीं विद्यां च निखिलदृढं देहि जननि॥— शङ्करनारायणः (Shankaranarayanan C) | शिखरिणी
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
यत्प्राणिनो लक्ष्म शिनष्ट्यजीवाद् विद्वद्भ्य इष्टा यदमूल्यराश्च।
स्यादुन्नतिं वै जगतो यतश्च त्वामेव हे ज्ञान! हृदा नमामि॥— पक्षालः नागडा (Pakshal Nagda) | इन्द्रवज्रा
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। हे ज्ञान! त्वाम् एव हृदा नमामि, यत् लक्ष्म प्राणिनः अजीवात् शिनष्टि, यत् च विद्वद्भ्यः इष्टा अमूल्यराः [अस्ति], यतः च जगतः उन्नतिं स्यात्। वै पादपूरणाय।
कल्याणलीलाशुचिभिस्सुयुक्तां मध्वारिशोभे! हृदि मे रमस्व।
लालित्यसौम्यौ हरये ददाति क्षीरादुदेति स्थिरदा भजे श्रीम्॥— श्रीवर्षिणी (Sree Varshini V P) | इन्द्रवज्रा
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। मध्वारिशोभे! हृदि मे रमस्व | क्षीरात् स्थिरदा उदेति लालित्यसौम्यौ हरये च ददाति ।कल्याणलीलाशुचिभिस्सुयुक्तां श्रीम् भजे।
श्रुत्वागुणांस्तव सुकीर्तित भट्टकाव्ये नारीबभूव कविमाजुहुवे रथाङ्गी।
रूपन्निरीक्ष्य सुहसन्नवदत्कविस्तं मातुस्सदा विकसितं करुणाकटाक्षं॥— गोपालः (Gopalan S) | वसन्ततिलका
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
मत्स्यो वेदसुरक्षको हरिरयं कूर्मं नमस्याम्यहं वाराहेण च रक्षिता सुरभि सा सिंहाय तस्मै नमः।
ह्रस्वान्नास्ति परात्परम् परतरं वण्ठस्य दासोस्म्यहम् रामौ भार्गवराघवौ भजमनः श्रीकृष्णपादामृतं॥— श्रीवात्सवः (Srivatsav) | शार्दूलविक्रीडितम्
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
याचित्प्रकल्प्यसकलं प्रकटीकरोति प्रद्योतते च नवरात्रसदुत्सवे या।
यां ह्यात्मवान्परिभजत्यखिलेषु नित्यं सा मे ददातु सुधियं तमसोऽतिदूरां॥— हर्षः पीसपतिः (Harsha Peesapati) | वसन्ततिलका
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। या चित् सकलं प्रकल्प्य प्रकटीकरोति; या च नवरात्रसदुत्सवे प्रद्योतते; यां हि आत्मवान् अखिलेषु नित्यं परिभजति; सा मे तमसः अतिदूरां सुधियं ददातु
This post is licensed under CC BY 4.0 by the author.