Post

Orientation 1946

नव्येभ्यश् छात्रेभ्यः संस्कृत-समितेः परिचयाया ऽऽयोजितो ऽयं कार्यक्रमः। तन्-मङ्गलाचरणं शार्दूलविक्रीडितयोर् ऊचिव —


नत्वा   देवमभीष्टदं   सुमनसा,   संवन्द्य   शुक्लाम्बरी   माशीर्वादमवाप्य   चारु   सुगुरोः,   पूर्णे   सतीन्दौ   दिवि।  
अद्य   श्रावणमासि   संस्कृतदिने,   गीर्वाणभाषार्थिनाम्   सभ्या   वै   समितेर्वयं   हि   भवतां,   सुस्वागतं   कुर्महे॥  
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। अद्य श्रावणमासि संस्कृतदिने इन्दौ दिवि पूर्णे सति, अभीष्टदम् देवम् सुमनसा नत्वा, शुक्लाम्बरीम् संवन्द्य, सुगुरोः चारु आशीर्वादम् अवाप्य, वयम् हि गीर्वाण-भाषा-अर्थिनाम् समितेः सभ्याः वै भवताम् सुस्वागतम् कुर्महे।



विद्याः   सूर्यकरोपमा   हि   परमाः   सङ्ग्राह्य   दिव्या   यया   काशत्पूरितचन्द्रमःप्रतिमया   देव्या   विसञ्ज्वल्यते।  
अज्ञानालसगूढतामसनिशाबुद्धिर्मम   ब्रह्मजे   ऽथास्यां   श्रावणपौर्णमास्यसुतिथौ   त्वां   नौमि   वाग्देवते॥  
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। यया काशत्-पूरित-चन्द्रमः-प्रतिमया देव्या, दिव्याः परमाः विद्याः सूर्यकर-उपमाः हि सङ्ग्राह्य मम अज्ञान-आलस-गूढ-तामस-निशा-बुद्धिः विसञ्ज्वल्यते। [हे] ब्रह्मजे वाग्देवते! अथ अस्यां श्रावण-पौर्णमास्य-सुतिथौ त्वां नौमि॥


अनया च स्रग्धरया नव्यं गणं परिचाप्य विरेमे —


गोपालाथर्वणौ   तावथ   समितिमुखावक्षयो   वित्तयन्ता   भाषाभागप्रणेतृद्वयमथ   निलयो   वर्षिणी   चैव   तौ   द्वौ।  
सङ्गीते   शङ्करश्च   प्रणव   इह   जयो   वेङ्कटोऽलङ्कृतिज्ञौ   एवं   क्रोध्यब्दसङ्घः   शिवमिति   विरमे   पूर्वनेतानिकेतः॥  
अन्वयः
धेयम्! उपरि दर्शितः पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति। अन्वयोऽयमेव शुद्धः। गोपाल-अथर्वणौ तौ, अथ समिति-मुखौ। अक्षयो वित्त-यन्ता। भाषाभाग-प्रणेतृ-द्वयम्, अथ निलयः वर्षिणी च एव तौ द्वौ। सङ्गीते, शङ्करः च प्रणवः। इह जयः वेङ्कटः अलङ्कृतिज्ञौ। एवं क्रोधि-अब्द-सङ्घः। 'शिवम्' इति [अहम्] विरमे पूर्वनेता अनिकेतः॥


This post is licensed under CC BY 4.0 by the author.