Rāvaṇa-tyāga
Do not use the consonants r, v, ṇ
इह-सप्ताहे सरलया समस्यया ऽऽरभामहे।
समस्या १
जघान रावणं रामस्तं सन्त्यजतु सर्वथा।
र-व-ण-व्यञ्जन-ग्रामं त्यक्त्वा वृत्तं विरच्यताम्॥— पक्षालः नागडा (Pakshal Nagda) | श्लोकः
अन्वयः
रामो रावणं हतवान्। अतस् तं रावणं सर्वथा परि-त्यज्य, “र्”, “व्”, “ण्” इत्य्-एतैस् त्रिभिर् व्यञ्जनै रहितं पद्यं लिखथ। (र्-व्-ण्-रहितेन पद्येन राम-रावण-युद्धं वर्ण्यते चेद् वरम्)
समस्याया आद्यत्वान् ना ऽत्र वृत्ते बाधः। पद्यं केना ऽपि वृत्तेन लेख्यम्।
आङ्ग्ला-ऽनुवादः
Starting with a simple challenge this week, here we go.
Challenge #1
जघान रावणं रामस्तं सन्त्यजतु सर्वथा।
र-व-ण-व्यञ्जन-ग्रामं त्यक्त्वा वृत्तं विरच्यताम्॥
Rāma killed Rāvaṇa. So now abandon him completely and write a verse without the letters र्, व् and ण् being used anywhere in it.
(Bonus points if you can describe Rāma Rāvaṇa Yuddha in your verse without using र्, व्, ण्)
Note the above śloka was only the problem, you are not supposed to modify it or anything. You have to compose your own verse. Also, since this is the first challenge, there are no constraints on the metre. You are free to use any metre.
समाधानानि
<स्त्रोन्ग्>कौ< सिन्धोः <स्त्रोन्ग्>श< सम्पूज्य शक्तिमान्।
<स्त्रोन्ग्>ले< लङ्कां <स्त्रोन्ग्>य< हन्तुं दशास्यकम्॥— अनिकेतः गणेशः (Aniketh Ganesh) | श्लोकः
अन्वयः
अजात्मजसुतं नौमि जानकीसहितं तथा।
अयोध्यालोकनाथं च दशाननजितं भजे॥
अन्वयः
कौशल्यातनुजो जगाम सुभुजो, भक्त्या पितुः सानुजो, जानक्या सह काननं दशमुखोपध्या हृता मैथिली।
सेतौ कीशचयैः पयोधसि कृते, ऽतः कौशलेयेन स, लङ्केशो हतसैन्यसूनुसहज, एकाकिना ऽहन्यत॥— पक्षालः नागडा (Pakshal Nagda) | शार्दूलविक्रीडितम्
अन्वयः
दशाननान्तकं भानुं सीतापतिं जनोत्तमम्।
अयोध्यानायकं कान्तं सदा सदा नमाम्यहम्॥
अन्वयः
दास्यहम् कोसलेशस्य निष्ठायुक्तास्मि सीतया।
भक्ताहम् आञ्जनेयस्य सत्सङ्ग उत्सुका सदा॥— चारुमती विजयकृष्णः (Charumathy B VijayKrishna) | श्लोकः
अन्वयः
लङ्काधिपतिनाशाय जटायुमोक्षदायिने।
कालनेमिनिहन्ताया कोसलेशाय मङ्गलम्॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
हृदयस्थं महादीपमीशानं निगमस्तुतम्।
नमामि जानकीकान्तं जगदानन्ददायकम्॥— श्रीधरः रामचन्द्रः (Sridhar Ramachandran) | श्लोकः
अन्वयः
लंकापतिं दुष्टदशाननं यो ऽबोधेन संयुक्तमनीकसज्जम्।
एकायुधेनापि महादिशेषः स भूमिजेशोऽजयदन्तिमे तम्॥— श्रीवर्षिणी (Sree Varshini V P) | उपजातिः
अन्वयः
लक्ष्मीशः सुततां गतोऽजजनुषः कृत्स्नाञ्जनान्ह्लादयं स्ताताज्ञामनुपालयन्स गहनं सीतानुजाभ्यामयात्।
पौलस्त्योऽपनिनाय तस्य दयितां तं कौसलः सानुगम् आहत्य क्षितिबाधकं कपिबलैः साकं ह्ययोध्यागमत्॥— साय् श्रीमयी शिष्ट्ला (Sai Sreemayee Sistla) | शार्दूलविक्रीडितम्