Guru
Guru
समस्या ४
वृत्तं गुरूपरि लिखेदथ किन्तु शब्दानाचार्यशिक्षकगुरूनिह न प्रयुञ्ज्यात्।
वृत्तार्धयोरुभययोरपि कश्चिदङ्कः सङ्ख्यैक्यमत्र नव चेद्वरमस्तु तर्हि॥— श्रीवात्सवः (Srivatsav) | वसन्ततिलका
अन्वयः
स्पष्टम्
आङ्ग्ला-ऽनुवादः
Compose a verse on teacher such that:
- The words ācārya, śikṣaka and guru are not used in the verse anywhere
- In each of the half-verses, there exists at least one number (like eka, dvi, etc). [Note you may choose to have more than one numbers also.]
- Bonus points if the sum of all numbers appearing in the verse is 9.
- Bonus points on composing in a metre other than anuṣṭup as usual.
समाधानानि
एकात्मेति सुतत्त्वदाय विभवे कारुण्यरूपाय ते
विद्यादाय समाधिनिष्ठनिरतायाद्वैतबोधात्मने
पञ्चोपेतजगत्त्रयस्य परिपालाख्याय कालाग्नये
तस्मै शङ्कररूपिणे नम इदं श्री दक्षिणामूर्तये॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | शार्दूलविक्रीडितम्
अन्वयः
स्पष्टम्
श्रीरङ्गेश तवार्चनेन कुशली श्रीभाष्यदाता च यः
श्रीलक्ष्मीचरणारविन्दहृदयध्यानी चतुर्वेदधीः।
कावेरीतटसंश्रितो मुनिरयं पञ्चेन्द्रियस्याधिपः
तं वन्दे यतिराट्पतिं कुलनिधिं रामानुजार्यं भजे॥— श्रीवात्सवः (Srivatsav) | शार्दूलविक्रीडितम्
अन्वयः
स्पष्टम्
अद्वैतविद्यारसिकन्त्रिलोकज्ञानदीपकम्।
देवङ्गुणत्रयातीतमेकदण्डिनमाश्रये॥— शङ्करनारायणः (Shankaranarayanan C) | श्लोकः
अन्वयः
स्पष्टम्
अमूल्यो नवरत्नेभ्यश्चतुर्वेदज्ञ पण्डित।
बृहती सप्तसिन्धुभ्यस्ते सहस्रहृतापि धीः॥
अन्वयः
स्पष्टम्
त्रिलोकज्ञे नमस्तुभ्यं वरदे ज्ञानरूपिणि।
पञ्चेन्द्रियजितप्रोक्ते एकं सत्यं प्रदेहि मे॥— प्रणवः रमेशः (Pranav Ramesh) | श्लोकः
अन्वयः
स्पष्टम्
मध्ये विषादे शरणैक देव
वार्ष्णेय पञ्चापरपाणवानाम्
चारित्रवान्द्वे नयने ददासि
यत्नैकनेतर्मनसा भजे त्वाम्॥— श्रीवर्षिणी (Sree Varshini V P) | इन्द्रवज्रा
अन्वयः
पञ्चापरपाणवानाम् - पञ्च-सङ्ख्याकाः अपराः (नास्ति परो येभ्यः) पाण्डवाः। यत्नैकनेतः - यत्नानाम् एको नेता, सम्बोधनम्
तं वेदरूपं विनयस्वरूपम् तं शक्तिरूपं अखिलस्वरूपम्।
तं पक्षदीपं करुणाप्रदीपम् ब्रह्मेश्वरं तं प्रणतोस्मि नित्यम्॥
अन्वयः
धेयम्! पदच्छेदो यन्त्रसाधितत्वाद् अशुद्धो भवितुम् अर्हति।
गुणत्विट्पो यो यं विबुधमभिवन्दे षडृतुषु
रुषा येन त्यक्ता निखिलमपि यस्मै मम यतः।
वये नाऽऽराद्यस्य त्रिविधशुचि यस्मिन्न दुरितम्
रमे तत्पादाग्रस्थितशुभदपादाग्रकमले— पक्षालः नागडा (Pakshal Nagda) | शिखरिणी
अन्वयः
यः गुण-त्विट्-पः, यं विबुधम् अभिवन्दे षड्-ऋतुषु, येन निखिलम् अपि रुषा (क्रोधः) त्यक्ता, यस्मै मम यतः, यस्य वये न अरात् (अददत्) त्रिविध-शुचि, यस्मिन् न दुरितम्, तत्-पाद-अग्र-स्थित-शुभद-पाद-अग्र-कमले रमे।
जलजजस्य सुतांश्चतुरोऽपि यो
ऽद्र्यधरि शून्यवचोभिरपाठयत्।
उपनिषद्रसमद्वयतथ्यकं
त्रिनयनांशमहं प्रणमामि तम्॥— अनिकेतः गणेशः (Aniketh Ganesh) | द्रुतविलम्बितम्
अन्वयः
यः जलजजस्य (ब्रह्मणः) चतुरः[४] सुतान् अपि अद्रेः (वृक्षस्य—इत्यमरः) अधरि शून्यैः[०] वचोभिः उपनिषदां रसम् अद्वय[२]-तथ्यकम् अपाठयत्, तम् त्रिनयनस्य[३] अंशम् अहं प्रणमामि।
एको एव परात्परेति वचसा चत्वारिवेदार्थदं
एकाकीस्थितयोगिराजमनिषं चिञ्चातलेसुस्थितं।
नारीभावधरं परान्कुशवपुं त्रैगुण्यवातान्तकम्
वन्दैकादशगीतलोलमनघं सप्ताद्रिनाथप्रियम्॥— गोपालः (Gopalan S) | शार्दूलविक्रीडितम्
अन्वयः
This post is licensed under CC BY 4.0 by the author.